________________
कुटनीमतम् ।
३६७
" उदयनगान्तरितमियं प्राची सूचयति दिङ् निशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी" ॥ ९२६॥ देवि त्वन्मुखपद्म पद्मान् विदधाति पश्य विच्छायान् ।
अलयोऽपि लज्जिता इव शनैःशनैस्तदुदरेषु लीयन्ते ॥ ९२७॥ संध्यासमयवर्णनाय रत्नावलीस्थामेव आर्यो ( १।२४) कविः उद्गृह्णाति उदयनेति । इयं प्राची पूर्वा, दिक् दिशा, परिपांडुना मुखेन-तत्रैव चद्रोदयस्य नियतत्वात् अचिरमुदेष्यचंद्रज्योत्स्नया शुभ्रेण दिशः ऊर्श्वभागेन, उदयनगान्तरितं उदयनगः उदयाचलः तेन अंतरितं आच्छादितं पिहितं, निशानाथं निशायाः रात्र्याः नाथं पतिं चंद्र, सूचयति उदयचंद्रास्तित्वं प्रकाशयति, इव उपमायां यथा, रमणी अंगना, प्रकृते उचितत्वात् विरहिणी, परिपांडुना सर्वतः म्लानेन विच्छायेन 'पारदरससिक्तकांचनच्छायेन । (विद्धशा० २।१६), मुखेन वदनेन, हृदयस्थितं विरहात् अदृश्यं चित्तनिहितं, प्रियं वल्लभं, सूचयति अनुमापयति । तथाहि मुखस्य परिपांडुत्वं प्रियविरहद्योतकं, यथाह क्षेमेन्द्रः-" आपांडुता मद. नकीर्तिसखी मुर्खेदो प्रौढिं बिभर्ति विरहे हरिणायताक्ष्याः । अच्छिन्नबाप्पविसरारुणनेत्रकोणलीनप्रतापमिव मन्मथमुहत्याः ॥ " (चतुर्वर्गसंग्रहे ३।१५) इति । तथा विद्धशालभंजिकानाटिकायामपि- “ दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः ।" (३।१७ ) इति । अत्र उपमालं. कारः। अपि च यथा रमणी परिपांडुना मुखेन गर्भिणी इति ज्ञायते एवं प्राची दिक् अपि स्वीयपरिपांडुमुखेन चंद्रं गर्भस्थं सूचयति इत्यपि अत्र परिस्फुरति, यथोक्तं यादवाभ्युदयकाव्ये ( २५० )-" निशाकरेण प्रतिपन्नसत्त्वा निःक्षिप्तदेहेव पयोधितल्पे । जगत्समीक्ष्या जहती च कार्य प्राची दिशा पाण्डरतामयासीत् ॥" इति । प्राचीनैस्तु उदयन् चंद्र एव पांडुना कामिनीगण्डेन उपमितः, तथा च-" ततः कुमुदनाथन कामिनीगंडपांडुना । नेत्रानंदेन चंद्रेण माहेन्द्री दिगलंकृता ॥" (महाभारते द्रोणपर्वणि अ. १८४।४६) इति, तथा " ततोऽरुणपरिस्पंदमंदीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगंडपांडुताम् ॥ ॥ इति ॥ 'उदयतटान्तरितं ' इति पाठे उदयाख्यगिरेः तटेन वप्रेण इत्यर्थः ॥ ९२६ ॥ देव्याः चाटुद्वारा पुनरपि संध्याकालं वर्णयति देवीति । देवि इति महिषीसंबुद्धौ, यदाह भरत:-"देवीति महिषी वाच्या राज्ञा परिजनेन तु ।" ( १७१८६) इति । पश्य । तव
९२६ उदयतटान्त (प. स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com