________________
दामोदरगुप्तविरचितं
यावन वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि । इति कथमपि नायकतो हृत्वा दृशमुत्ससर्ज रङ्गभुवम् ॥९२४ ॥ 'कन्दर्पमहमहोत्सवहतहृदयैर्नावधारितोऽस्माभिः ।
संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथाहि ॥ ९२५ ॥ अत्र रत्नावल्या-" सागरिका-( श्रुत्वा सहर्ष परिवृत्य राजानं दृष्ट्वा सस्पृहम् ।) कथमयं स राजा उदयन: यस्मै अहं तातेन दत्ता । तत् परप्रेषणकृशितमपि मे शरीरं एतस्य दर्शनेन इदानी बहुमतं संवृत्तम् ।" इति ॥ ९२३ ॥ यावदित्यादि । देवीनिदेशमुलंघ्य एतावंतं कालं अत्रैव विटपान्तरिता स्थिता इति कोऽपि न जानीयात् तथा अंत:पुरं शीघ्रं अलक्षिता प्रवेक्ष्यामि इत्यर्थः । इतिशब्दः हेतो, एवं विचार्य इति भावः । कथमपि यत्नेन कष्टेन, नायकत: उदयनतः, दृशं हृत्वा लग्नं चक्षुः अपकृष्य, रंगभुवं "रंगो नृत्ये रणे रागे" इति धरणिः, रंगाय नृत्याय या भूः सा रंगभूः तां नाट्यस्थलं, उत्ससर्ज तत्याज, नेपथ्यं प्रविष्टा इत्यर्थः ॥ ९२४ ॥ तदनंतरं विशेषकेण राज्ञः उक्ति: कंदर्पेत्यादिना । कंदर्पमहः मदनोत्सवइतिनामा य: महोत्सवः महान् उत्सव: “ उत्सूते हर्षमित्येष उत्सव: परिकीर्तितः।” इति हर्षोल्लासकरः कृत्यविशेषः, तेन हृतं आकृष्टं व्यापारान्तरेभ्य: हृदयं अंत:करणं येषां तैः, वसंतोत्सवप्रेक्षणमदनपूजादिसक्तचेतोभिः अस्माभिः, संध्यातिक्रमकालः संध्याकालमर्यादोलंघनं, सायसंध्याकालस्तु-अहोरात्रसंध्यात्मकः, द्विनाडिकामितः, आदित्यादर्धास्तमितादारभ्य यावत् तारकाः नभसि न परिस्फुटा: तावत् सायंसंध्या, न अवधारितः न लक्षित: विकाल: संवृत्तः इति; यत् राज्ञां सायंकृत्यं-राजसभां आस्थाय मांडलिकामात्यादिसेवकप्रजामुख्यपुरुषादीनां प्रणामादिस्वीकरणं यत् वैतालिकोक्तौ-" नृपजनः सायंतने संपतन्' 'पादास्तवासेवितुं " (रत्नावल्यां १।२३) इत्यनेन सूचितं, ततश्च अवश्यविहितसंध्यावंदनकाल: यदाक्रमणेन राज्ञः धर्मापराधभीतिः, तया च तस्य धर्मपरायणत्वं सूचितम् । हे प्रियवयस्यक प्रियसुहृत् , त्वं पश्य अवलोकय । तथाहि इति अवयवसमुदाय: विवरणोपक्रमे । अत्र रत्नावल्यां उदयनोक्ति:-" कथमुत्सवापहृतचेतोभिरस्माभिः संध्यातिक्रमोऽपि नोपलक्षितः । देवि, पश्य ।" इति ॥९२५॥
९२४ कतः कृष्ट्वा (प. स्तं) ( प. पुस्तके चरमदलपृष्ठभागो नष्टः) ९२५ (अत्रापि प. पृष्ठं भमं) [५. पुस्तकस्य ९२२-९२५ श्लोकमयं पत्रं अर्धमेव, तेन तत्र त्रुटिः।]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com