________________
कुट्टनीमतम् ।
उच्चारितेऽन्यनान्नि त्रिदशपतो तत्क्षणाच्युतपदायाम् । उत्पन्नविस्मयरतिनिंदधे नरभर्तुरात्मजा हृदये ।। ९२२ ॥ अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै । हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥ ९२३ ॥ अयनं गमनं यस्य तं उदयमानं इत्यर्थः यद्वा उत् उत्कर्षेण ऊर्ध्वं वा अयते गच्छति इति, " नन्दि० " ( पा. ३ | १ | १३४ ) इति नंद्यादित्वात् कर्तरि ल्युः, नन्दयतीति नंदन इतिवत् ॥ रत्नावल्यां नेपथ्ये वैतालिकपाठः एवं - " अस्तापास्त समस्त भासि नभसः पारं प्रयाते वावास्थानीं समये समं नृपजन: सायंतने संपतन् । संप्रत्येष सरोरुहद्युतिमुषः पादांस्तवासेवितुं प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ॥ " ( १।२३ ) इति ॥ ९२९ ॥ एतच्छ्रवणेन सागरिकायाः भावमाह उच्चारिते इति । च्युतानि निर्गतानि पदानि शब्दाः यस्यां तस्यां वैतालिकपठितायां, आर्यायां इति शेषः, त्रिदशपतिः इन्द्रः अतिशयोक्त्या उदयनः तथात्वेन उक्तः, यद्वा त्रिदशानां देवानां पतौ यज्ञदानादिकर्मभिः आहुत्यादिदानादिना पालके इति वा, तस्मिन्, मदन इति मदननामापेक्षया अन्यनाम्नि उदयन इति तदभिधाने, उच्चारिते कथिते सति, तत्क्षणात् उदयनेतिनामश्रवणक्षणे एव, नरभर्तुः राज्ञः सिंहलेश्वरस्य, आत्मजा तनुजा दुहिता, उत्पन्नौ विस्मयः - यः कामदेव इति पूर्वं गृहीतः स तु परमार्थतः उदयनः इति ज्ञानेन विस्मयः, रतिः - स्नेहभावः च ( तत्कारणं अग्रिमार्यायां वक्ष्यति, ) यस्या: सा, हृदये निदधे एवं वक्ष्यमाणं विचारयामास इत्यर्थः । यद्वा ' च्युतपदार्याम्' इति पाठो भवेत्, तां च सा हृदये निदधे इत्यन्वयः तत्र ॥ ९२२ ॥ तस्याः विचारस्य स्वरूपमाह अयमिति । अयं पुरोवर्ती, उदयनः वैतालिकनिर्दिष्टः, स राजा यस्मै, 1 तात: स्वपिता सिंहलेश्वर: विक्रमबाहुः, सत्कृत्य सन्मानपूर्वकं तत्प्रार्थनां स्वीकृत्य इति भाव:, ददौ उद्वाहार्थं वाग्दानं कृतवान् । इदं वैतालिकवाक्यान्तर्गतोदयननाम्ना निश्चितम् । हंत हर्षे, “ हंत हर्षे विषादे च वाक्यारंभानुकंपयोः । " इति शाश्वतः, परस्य अन्यस्य, प्रेषणं दासकर्म, अपि, सांप्रतं अधुना, "युक्तार्थमधुनार्थ च सांप्रतं संप्रयुज्यते ।” इति शाश्वतः, निष्फलं फलहीनं वृथा न जातं इष्टलाभात् इत्यभिप्रायः । यद्वा न निष्फलं अपि तु सांप्रतं युक्तार्थं जातं, इत्यपि योजयितुं शक्यम् । दास्यकर्मणः दोषवत्त्वेऽपि प्रियप्राप्तिरूपगुणकथनात् लेशालंकारः ॥
"
"
३६५
९२२थना (प. स्तं) । तत्क्षणं व्यपेतायाम् (स्तं ) । विस्मयपरा मानं दधे (का) यमतिर्नि ( प. स्तं ) ९२३ यस्मिन् ( गो . का) । परप्रेक्षण ( प ) ( अस्याः पूर्वार्धे प. पुस्तके त्रुटि: )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com