________________
३६०
दामोदरगुप्तविरचितं
' प्रेषय कन्यामेनामवरोधं, त्वं गृहाण कुसुमादि । यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ' ॥ ९९२ ॥ उपगम्य ततश्रेटी तामवदवं किमर्थमायाता । मेधाविनीं विमुच्य, व्रज, तस्मिन्मा विलम्बस्व ॥ ९१३ ॥ विहिते देव्यादेशे मनसीदं संविधाय सा तस्थौ । विहगी सुसङ्गताया हस्ते निहिता, मनोभवसपर्याम् ॥ ९१४ ॥
प्रधानचेटीं, अवदत् ॥ ९११ ॥ तस्याः अपवार्योक्तमनुवदति प्रेत्रयेति । एनां अपरोक्षां, कन्यौं अनूढां कुमारिकां सागरिकामित्यर्थः, अवरोधं राश: अन्तःपुरं, प्रेत्रय तत्र गमनाय आज्ञापय । त्वं च तद्धस्तगतं कुसुमादिपूजोपकरणं स्वहस्तधृतं कुरु, यावत्, इयं सागरिका, भूमिनाथस्य नृपस्य वीक्षणयो: चक्षुषोः, विषये गोचरे, न भवति; आगच्छतः राज्ञः दृष्टिगोचरा इयं न भवेत् तावत् तां शीघ्रं अंतःपुरगतां कुरु इत्यर्थः ॥ मूलनाटिकायां तु स्वमुखेनैव वासवदत्तया सागरिकायाः प्रेषणम् ॥ ९१२ ॥ ततः, चेटी कांचनमाला, उपगम्य सागरिकायाः समीपं गत्वा, तां अभ्यवदत् । किमित्याह-त्वमित्यादि । त्वं सागरिका, मेधाविनी मेधया अतिशायिन्या बुद्धिवृत्त्या युक्ता "अस्मायामेधाखजो विनि: " ( पा. ५ | २ | १२१ ) इति मत्वर्थे विनिप्रत्ययः, -इति अन्वर्शनाम्नी सारिका तां; सारिका ( ' शारिका ' > च शुक्रवत् व्यक्तवाक् कापि चटकविशेषस्त्री, शुकांगना इति केचित्, 'मेना' इति भाषायाम् । तां विमुच्य एकाकिनीं बिडालादिभ्यः अरक्षितां त्यक्त्वा, किमर्थमि " चतुर्थी " ( पा. २ |१| ३६ ) इत्यनेन अर्थशब्देन कस्मै इदं ( पठनं ) इत्यर्थे समास:, क्रियाविशेषणत्वाच्च द्वितीया, कं प्रयोजनमुद्दिश्य इत्यर्थः, आयाता इह आगवा । तस्मात् व्रज इतो निर्गच्छ इति भावः । तस्मिन् गमने, विलंबं मा कुरु ॥९९३॥ युग्मेन सागरिकावृत्तमाह विहितेत्यादिना । देव्याः, आदेशे आज्ञायां विहिते कृते सति, अर्थात् अंतःपुरं प्राप्तुं कतिचित्पदानि गत्वा, सा सागरिका, इदं वक्ष्यमाणं, मनसि संविधाय विचार्य इत्यर्थ:, तस्थौ तत्र किंचिद्दूरे अतिष्ठत् । तस्याः विचारं शब्दैर्निरूपयति विहगीति । विहगी पक्षिणी सारिका । सुसंगतायाः तन्नाम्न्याः चेट्याः हस्ते निहिता रक्षणार्थं तस्यै पूर्वं दत्ता एव, अतः देवीप्सितकर्मभंगभयं मे नास्ति इति भावः, अतः, मनोभवसपर्यं कामदेवपूजां एतत्पदस्य अवलोकयामीति
2
00
९१२ वरोऽन्ध त्वं दिम् (स्तं ) ९१३ तामभ्यवदत्किं ( गो. का ) ९१४ विधाय ( प. स्तं ) । हस्ते दत्ता ( गो. का ) । मनोभवस्येयम् (स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com