________________
कुटनीमतम् ।
अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेटया । अविदितरत्नावल्या पूजोचितवस्तुहस्तयाऽनुगता ॥ ९१० ॥ अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।
काञ्चनमालामवदनृपमहिषी जातसंक्षोभा ॥ ९११ ॥ त्तथा, तदनुरूपं इत्यर्थः, भ्रान्त्वा परिक्रमणं कृत्वा सविलासमदहर्ष रंगं परिक्रम्य इत्यर्थः, जवनिका यवनिका युनोति आवृणोति अनया इति तिरस्करिणी पिधानपटः नेपथ्य, तया अंतरिते अपवारिते आच्छादिते बभूवतुः, नेपथ्यं प्रविविशतुः इत्यर्थः ॥ ९०९ ॥ उपक्षिप्तस्य कुसुमायुधपूजनस्य सिद्धयै दृश्यान्तरं प्रस्तौति अपेति । ततः उक्तप्रसं. गानंतरं नृपसुता प्रद्योतदुहिता देवी वासवदत्ता, चेट्या दास्या कांचनमालाख्यया सह, तथा पूजोचितानि पूजासंपादनार्थ उचितानि योग्यानि यानि वस्तूनि कुसुमकुकुमचंदनधूपदीपादीनि द्रव्याणि स्थालीनिहितानि हस्ते यस्याः तादृश्या, अविदितरत्नावल्या-अविदिता अलक्षिता, देव्या इति शेष:, सा चासौ रत्नावली च तया, अनुगता किंचिदन्तरेण अनुसृता, भर्तृदर्शनात रक्षिता रत्नावली एव अनुगच्छतीति देव्या अविदितं इति भावः, सा वासवदत्ता, अपनीततिरस्करिणी दूरीकृता पात्राच्छादकजवनिका यया तादृशी अभवत् , अर्थात् उक्तपरिजनसंगता रंगं प्रविवेश ॥ ९१० ॥ अथ अनंतरं, सागरिकां तदपरनाम्नी रत्नावली, स्वसमीपे दृष्ट्वा, सागरिका-सिंहलेश्वरस्य विक्रमबाहोः दुहिता रत्नावलीति ख्याता, सा वत्सराजेन प्रार्थिता तस्मै प्रतिपादयितुं सिंहलेश्वरेण स्वामात्यवसुभूतिना सह प्रेषिता मध्येसमुद्रं यानभंगात् निमना, केनापि कौशांबीयेन वणिजा सागरादुपलब्धा रत्नावलीचिह्नेन तेन अभिज्ञाता यौगंधरायणाय समर्पिता, तेन च वासवदत्ताहस्ते सगौरवं नि:क्षिप्ता, समुद्रात् प्राप्तेति सागरिकेति व्यवहृता । तथा च रत्नावल्यां चतुर्थेऽङ्के वासवदत्तोक्ति:-" अमात्य, एषा खलु सागरात्प्रातेत्युक्त्वाऽमात्ययौगंधरायणेन मम हस्तं(स्ते) नि:क्षिप्ता, अत एव सागरिकेति शब्दायते ।" इति । तद्दर्शनेन जातसंक्षोभा संजातचित्तवैक्लव्या, तथाहि रत्नावल्यां" वासवदत्ता-(निरूप्यात्मगतम् । ) अहो प्रमादः परिजनस्य । यस्यैव दर्शनपथात् प्रयत्नेन रक्ष्यते तस्यैव दृष्टिगोचरं पतिता भवेत् ।” इति, नृपमहिषी पट्टराशी " कृताभिषेका महिषी, भट्टिन्य इतराः स्मृताः । ” इति हलायुधः, परिजनस्य सेवकवर्गस्य, प्रमादितां अनवधानता, निंदित्वा तिरस्कृत्य, कांचनमालां तदाख्या
___९१० पूजोदित (गो. का) ९११ अथ बुद्धा (गो. का)। प्रमादतः (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com