________________
कुट्टनीमतम्।
अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन । तातान्तःपुरिकाभिर्यथाऽर्च्यते किं तथैतदुत नेति ॥ ९१५ ॥ पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् । समुपेत्य वत्सराजं जगाद सा जयतु देव इति ॥ ९१६ ॥ परिभुक्तमपि नवत्वं शृङ्गार मदनपर्वणा नीतम् ।
भजमानो भजमानां स्वागतवचसाऽभिनन्ध तामूचे ॥ ९१७ ॥ उत्तरार्यास्थितपदेन अन्वयः ॥ ९१४ ॥ तावत् अवधारणे, सिन्दुवारविटपेन तदाख्यवृक्षण, तिरोहिता अन्तर्हिता यथा देव्यादिः कोऽपि न पश्येत् तथा, अवलोकयामि पश्यामि । अवलोकनविषयं स्फुटयति तातेति । यथा येन प्रकारेण, तातस्य सिंहलेश्वरस्य, आन्त:पुरिकाभिः अंत:पुरे भवा: आंत:पुरिकाः ताभि: अवरोधस्त्रीजनैः, अर्च्यते पूज्यते, तथा साकल्येन तत्प्रकारेणैव, एतत् अत्रत्यं कामपूजनं, उतशब्दः वितर्के, " उत प्रश्ने वितर्केऽर्थे ।" इति विश्वलोचनः, न तथा अपरप्रकारेण कैश्चिद्भेदैः वा, इतिशब्द: प्रकारे ॥ तथाहि रत्नावल्यां सागरिकोक्ति:-"( कतिचित्पदानि गत्वा आत्मगतम् । ) सारिका मया पुन: सुसंगताया हस्ते समर्पिता । इदमप्यस्ति मे प्रेक्षितुं कौतूहलं, किं यथा तातस्यान्तःपुरे भगवाननंगोऽर्च्यते इहापि तथैव किं अन्यथेति ।" इति ॥ ९१५ ॥ इदानी देवीवृत्तमाह पिण्डीति । सा वासवदत्ता, वत्सराजं उदयनं, कीदृशमित्युत्प्रेक्षते, पिण्डीकृतं घनीभावं प्रापितं, रागं स्नेह, इव उत्प्रेक्षायां, अपि च, हृच्छयं सर्वेषां प्राणिनां अवस्थाविशेषे हृदि अंत:करणे शेते सुखेन वर्तते इति ] हृच्छय: कामः, लब्धः विग्रहस्य शरीरस्य उत्कर्ष: सौन्दर्यातिशयः [ शिवेन भस्मीकरणात् पूर्व वर्तमानात् देहात्, ] येन इति च [ तादृशं, इव उत्प्रेक्षायां, अपूर्वशरीरसौंदर्यशालिनं इति भावः, इदं श्लेषण वत्सराजस्यापि विशेषणं, तत्र लब्धः विग्रहात् युद्धात् उत्कर्षः अतिशय: येन तं इत्यर्थः, युद्धेषु जयेन कीर्तिमन्तं इति भावः, “ संग्रामे विग्रहः ख्यातः कायविस्तारयोरपि ।" इति शाश्वतः, तं, समुपेत्य सम्यक् समीपं गत्वा, जगाद अवदत् । किमित्याह-देवः परमेश्वरः राजा, जयतु सर्वोत्कर्षेण वर्तताम्, इति ॥ ९१६ ॥ ततः राज्ञो वचनमवतारयितुमाह परीति । परिभुक्तं सम्यगन्तर्बहिश्च अनुभूतमपि, ] 'मदनपर्व मदनोत्सववसंतसमयः [ इति टिप्पणी । मदनपर्वणा मदनमहोत्सवेन ___९१५ यथोच्यते किं तथेह नो वेति (प. स्तं ) ९१६ जयति (का) ९१७ शंगाररसं म (गो २. का) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com