________________
३५६
दामोदरगुप्तविरचितं
धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् । प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥ ९०५ ॥ 'आदिशति देव देवी' त्यर्धोक्ते, ते सलज्जमन्योन्यम् । अवलोक्य मुखं, 'नहि नहि-विज्ञापयति प्रणम्य विनयेन ॥ ९०६ ॥
अत्र रत्नावली- “ विदूषकः - भो वयस्य, अहमेतासां वधूपरिजनानां मध्ये नृत्यन् मदनमहोत्सवं मानयिष्यामि । राजा - ( सस्मितम् । ) वयस्य, एवं क्रियताम् ॥ विदूषकःयद्भवान् आज्ञापयति । ( इति उत्थाय चेट्योर्मध्ये नृत्यति । ) भवति मदनिके, भवति चूतलतिकें, मामप्येतच्चर्चरिकं शिक्षयतम् । " इत्यादि ॥ एतदनुसारी ' चर्चरिकार्थेन ' इति पाठः । ' चर्चरितालेन ' इति पाठस्तु अशुद्धः, चर्चरीशब्दस्य दीर्घान्त्यत्वात् । चर्चरीतालस्तु - " विरामान्तद्रुतद्वंद्वान्यष्टौ लघु च चच्च ( र्च ) री । " इति संगीतरत्नाकरे ( ५ | २६५ ) । ' हास्यत्रयाभिरामं ' इति पाठे अशुद्धनर्तनेन प्रेक्षकेषु उत्तमानां स्मितं, मध्यमानां उपहसितं, नीचानां च अपहसितं इति त्रिप्रकारं हास्यं उत्पन्नं इति तेन हास्यत्रयेण अभिरामं इत्यर्थः ॥ ९०४ ॥ ततः ते निर्दिष्टे चेट्यौ, धीरोद्धतललितपदैः यथोचितं धीरैः शास्त्ररीतिमत्यजद्भिः शास्त्रमर्यादानुलङ्घकैः, उद्धतैः नृत्ताय उच्चैःकृतैः, ललितैः सार्वाशसुंदरैः च, पदैः पदविक्षेपैः, यद्वा धीरोद्धतैः वीर रौद्रभावप्रधानैः, धीरललितैः वीरशृंगारभावप्रधानैः; गानरहितेन नृत्तमात्रेण इति भावः, चिराय दीर्घकालं, क्रीडित्वा नर्तित्वा इत्यर्थः, समुपगम्य राज्ञः समीपं गत्वा, प्रद्योतस्य कौशाम्ब्यधिपतेः प्रद्योतना मकराज्ञः सुताया: दुहितुः, वासवदत्ताख्यायाः उदव्यनमहिष्याः, संदेशकं वाचिकं अर्थ अल्पां संदिष्टार्थी वाचं, नरनाथं प्रजाधिपं तं उदयनं, ऊचतुः वदतः स्म ॥ तथाहि रत्नावल्यां चूतलतिकोक्ति:- " हंजे मदनिके, चिरं खलु आवाभ्यां क्रीडितम् । तदेहि निवेदयावस्तावद्भर्व्याः संदेशं महाराजस्य । " इति ॥ ९०५ ॥ संदेशकथनं प्रारभेते आदिशति इति । आदिशति आज्ञापयति । देव महाराज, “देवेति नृपतिर्वाच्यो भृत्यैः प्रकृतिभिस्तथा " । ( भरतीये ११।१९ ) इत्युक्तेः । देवी पट्टराज्ञी, "देवी कृताभिषेकायां" इति अमरः । इति एवंप्रकारे, अर्धोक्ते वाक्यापरिसमाप्तौ एव, ते उभये, सलजं 'आदिशति ' इत्यनुचितपदप्रयोगेण जातवैलक्ष्यात् सव्रीडं, तथाहि आदेश : ( आज्ञापनं ) स्वापेक्षया निकृष्टं प्रति भवति, स च वासवदत्तायाः राजानं प्रति अयुक्त इति; अन्योन्यं मुखं अवलोक्य अनुचितं
"
९०५ परैः ( गो२. का. ) । संदेशमथोचतुः ( गो२. का ) ९०६ त्यक्तवचःस (गो) क्ते स ( का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com