________________
कुट्टनीमतम् ।
अधुनाऽन्तरयसि मामिति कोपादिव वारवाणमभिरामम् । बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥ ९०० ॥ चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाध्यम् । अधृत पतन्निर्यूहांन वेषा मदनिका वेणीम् ।। ९०१ ॥ पीड्यमाने मित्रे तं व्यसने न त्यजति, तदानीं अन्य दुर्बलः सुहृदपि दूरीभवति तद्वत् इति अप्रस्तुतस्यापि परिस्फूर्तेः समाप्तोक्तिरलंकारः ॥ ८९९ ॥ एवं सति, अधुना एतादृशे महोत्सवकाले इति व्यज्यते, मां हारं उक्तप्रकारेण विपत्तावपि संगिनं इति भावः, अंतरयसि सावकाशं करोषि तव सत्तया स्तनमंडलात् विरहयसि, इति : हेतौ, इतिहेतोः इत्यर्थः, कोपात् " रोषस्तात्कालिकः कोपः । " इत्युक्तलक्षणात्, इव उत्प्रेक्षायां, बहुचित्रपदन्यासैः नृत्यकाले करणेषु चारीषु च ये बहव: विविधाः चित्राः आश्चर्यकराः पदन्यासाः चरणक्षेपाः तैः, लक्षणे तृतीया, वल्गन्त्याः नृत्य॑त्याः, उच्छलित: ऊर्ध्वं उत्पतन्, हारः मुक्तासरः, अभिरामं सुंदरं, वारवाणंवारं वरणीयं सुंदरं वानं स्यूतिकर्म यस्य तत् कंचुकं 'चोली' इति भाषायां, इंति तत्र आघातं करोति, तं ताडयतीति वा, धातोरनेकार्थत्वात् 'दुंदुभिं हंति' इतिवत् योग्यतया ताडयति इत्यर्थः ॥ हेतूत्प्रेक्षालंकारः, अन्योऽपि कोपाविष्टः उच्छलन् प्रतिपक्षस्योपरि प्रहारान् करोति इति समासोक्तिः च ॥ ९०० ॥ तयोः नृत्यतारतम्यं सूक्ष्मं निरीक्ष्य वक्ति चूतलतेति । चूतलता तदाख्या चेटी, धम्मिल्लः संयतः केशपाशः तस्मात् नृत्यावेशवशात् च्युतं भ्रष्टं, शेखरं शिरसि तिर्यक् नद्धा स्रकू, " आपीडशेखरोत्तंसावतंसाः शिरसि स्रज: । " इति हलायुधः, श्लाघ्यं क्रियाविशेषणं प्रशस्तरीत्या, दधौ धारयामास, पतिष्णुमपि तं कौशलेन पतितुं न अदात् इत्यर्थः । एषा पुरो दृश्यमाना, मदनिका तन्नाम्नी अपरा चेटी, तुः पूर्वोक्तवैलक्षण्ये, पतन्निर्यूहां गलत्स्तबकां, वेर्णी बंधविशेषेण रचितं केशपाशं, न अधृत अकौशलात् मदातिरेकवशाद्वा पुष्पस्तबकपतनं न निरुरोध इत्यर्थः ॥ अत्र मदनिकायाः अकौशलपक्षे चूतलतिकायाः उत्कर्षः, मदातिरेकपक्षे मदनिकायाः उद्दामक्रीडार सैकतानतया तस्याः उत्कर्षः, व्यंजितः । यद्वा चूतलतायाः नृत्ये कौशलं, मदनिकायास्तु तत्र तदैकपरत्वं निरीक्षितं इति पृथक्पृथग्धर्मेण उभे अपि प्रशंसिते इति बोध्यम् ॥ अत्र रत्नावलीस्थतत् क्रीडावर्णनात्मक श्लोकस्य "स्रस्तः खग्दामशोभां त्यजति विरचितामाकुलः केशपाश: ।" इति आद्यपादस्य अर्थो
३५३
९०० वल्ग्यन्त्या ( गो ) । [ का. पाठोऽशुद्धः ] ९०१ अधृतपतनि ( नि ? ) ब्यूहा ( प. स्तं ) निर्यूहं ( गो ) । नन्वेषा ( स्तं ) । वेणी ( प. स्तं ) वेणी: ( गो ) [ का. पाठोऽतीवाशुद्धः ]
२३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com