SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । ३५१ अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् । वासवदत्तामहिते नृत्यन्त्यो प्रविशतश्चेटयौ ॥ ८९६ ॥ दर्शितसरोजवर्तनमात्राभिनये शरेऽभिनेतव्ये । विदधाने वीरदशावायुधमात्रं समाश्रित्य ॥ ८९७॥ इत्याधुक्ते: महोत्सवेषु तदप्रतिषिद्धं अनुमतं वा द्रष्टव्यम् । यद्वा पणरहिताया: केवलायाः पाशक्रीडायाः अबाधितत्वात् तादृशी प्रकृते ग्राह्या ॥८९५॥ अथ युग्मेन वासवदत्ताप्रेषितचेट्योः रंगप्रवेशं वर्णयति अथेत्यादिना । अथ अनंतरं, सहचरनिर्दिष्टे सहचरः वयस्यः विदूषकः, तेन निर्दिष्टे दर्शिते सूचिते, वासवदत्तया उदयनमहिष्या प्रहिते प्रेषिते, चेट्यौ चेटति परप्रेष्यत्वं करोति सा चेटी दासी ते मदनिकाचूतलतिकानाम्न्यौ नृत्यं कुर्वत्यौ प्रविशतः, रंगं इति शेषः । नृत्यक्रियां विशिनष्टि मदेति । मदेन मधुपानमदतुल्येन यौवनजेन अवलेपेन स्खलंतौ इतस्तत: पतंतौ चरणौ तेन ] विघटितः विसंष्ठुल: [व्याकुलः, अभिनय: अग्रिमार्यायां वर्ण्यमानः, यथा स्यात्तथा ॥ प्रकृते रत्नावल्यां विदूषकोक्तिः-" भो वयस्य, प्रेक्षस्वप्रेक्षस्व । एषा खलु मदनिका मदवशविसंष्ठुलं वसंताभिनयं नृत्यंती चूतलतिकया सहेत एवागच्छतीत्यवलोकयतु प्रियवयस्यः ।" इति ॥८९६॥ नृत्यंत्यौ ते वर्णयति दर्शितेति । हस्ताभ्यां दर्शितः सरोजस्य कमलस्य वर्तनस्य भ्रमणस्य अभिनयः याभ्यां ते, अनेन कमलवर्तनाख्यं बाहुकरणं उक्तं, तत्स्वरूपमाह कोहल:-" पद्मकोशाभिधौ हस्तौ व्यावृत्तादिक्रियान्वितौ । आश्लिष्टौ च करौ क्षेत्रे व्यावृत्तपरिवर्तितौ । मिथः पराङ्मुखौ सन्तौ सैषा कमलवर्तना ॥” इति । तथा तदनंतरं शरे बाणे अभिनेतव्ये सति, तथा च वसंतौचित्येन पुष्पबाणानां अभिनये प्रस्तुते, आदौ पुष्पबाणस्य प्रथमं बाणं अरविंदं अभिनीय कर्तव्यतया बाणस्य अभिनये प्राप्ते सति इति भावः, स च कपित्थाख्येन हस्तेन, तदुक्तं संगीतरत्नाकरे"अंगुष्ठाग्रेण लग्नाग्रा तर्जनी शिखरस्य चेत् । कपित्थः स्यात् तदा,... । चक्रचापगदादेश्च शराकर्षादिकर्मणि । अन्योन्यकार्यविषयौ कपित्थशिखरौ कचित् ॥” (७॥ १३४-५) इति, आयुधमात्रं आश्रित्य-न केवलं शरस्य एव अपि तु शक्तितोमरचक्रचापगदादीनां अन्येषां यावतां आयुधानां अभिनयं प्रस्तुत्य, अर्थात् मुष्टिशिखरखटकामुखाख्यान् विविधान् हस्तान् निवर्तन्त्यौ, वीरदृशौ वीररसप्रकाशके नयने ८९६ [ का. पूर्वार्ध अशुद्धम् ] । विविशतुश्चेट्यौ (प. स्तं) ८९७ वर्तनगात्रा (का) वर्तनसाम्याभिनयं (गो)। शिरे (प)। दर्शितशरोज नेतन्या । दृशा चायुघ. (स्तं) [का. पूर्वार्धोत्तरदलं दुष्टम् ] । निदधाने वीरदशा"त्रां (का) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy