________________
दामोदरगुप्तविरचितं
तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् । मुहुरुपजातस्खलनं संदर्शितदाढयसौष्ठवं स्थविरम् ।। ८९१ ॥ अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः।
इति गायन्ती रभसादालिङ्गति मदक्शात्तरुणी ।। ८९२ ॥ उच्चैःकृता: उष्णीषेषु धृतत्वात् , विविधकुसुमानां वसंते प्रादुर्भूतानां अशोकबकुलतिलककुरवककर्णिकारादिपुष्पाणां] निहा:स्तबका: [येन तम् ; तथा च रत्नावल्यां-" हेमालंकारभाभिर्भरनमितशिरःशेखरैः कैंकिरातैः।" (१।१०) इति । पुनश्च क्रीडासंभूत: य: गात्रायास: शरीरश्रमः तस्मात् समुत्थितः प्रादुर्भूतः यः बहुः प्रभूतः निःश्वास: प्राणवायोबहिः निःसरणं तेन प्रकीर्ण: विकीर्यमाणः इति भावः, शरीरवस्त्रादिषु लग्नः पटवास: पूर्वोक्तः यस्य तम् ॥ ८९०॥ पुन:, तूर्य 'तुरी' इति भाषायां प्रसिद्धं सुषिरवाद्यं, तथाहि संगीतसारोद्धारे सुधाकलश:-" काहला श्वापचं वाद्यं, तूररीयं तु नाट्यगम् । रणवाद्यं मधुकरी, लास्यजं सुषिरं विदुः॥” (४।४६) इति; तेषां रवैः नादै: व्यामिश्रिताः संवलिता:, करताला: तूर्यगानानुसारिण: करयोः ताला: हस्तद्वयास्फोटा: कराघाता:, 'ताली इति भाषायां प्रसिद्धाः, तैः, करणे तृतीया, उद्भुजं तालवादनार्थ उद्गतौ उच्चैः कृतौ भुजौ यथा स्यात् तथा, प्रनृत्यन्तं नानाप्रकारं नृत्यं कुर्वन्तम् । तथा मुहुः वारंवारं, वृद्धत्वेन क्रीडामदेन वा, उपजातस्खलनं भूमौ प्राप्तपतनं; तथापि संदर्शितेत्यादिसंदर्शितं शरीराणां दाळ बलवत्ता च सौष्ठवं अंगप्रत्यंगानां शोभनं निवेशनं च येन, तम् स्थविरं कर्म जातावेकवचनम् ; स्थविरान् वृद्धान् इत्यर्थः, पश्य इति क्रियापदं ८८८ आर्यायाः आकर्षणीयम् ॥ ८९१ ॥ इतश्चतुभिः रमणीनामपि क्रीडाप्रकारानाह । अस्त्विति । काचित् तरुणी युवतिः, अनेन तस्या: मदोद्धतत्वं सूचितं, मदवशात् मदपरतंत्रा सती, मदश्च-“ मदो विकारः सौभाग्यतारुण्याद्यवलेपजः ।" इति (कर्णभूषणे ) लक्षितः, रभसात् वेगेन, कंचित् स्वमनोभिलषितं प्रियं, आलिं. गति; किं कुर्वती, गायन्ती; किं गायन्तीत्याह अस्तु इति । अयं वसंतः योग्यत्वात् प्रकृतत्वाच्च लक्षणया वसंतोत्सव इत्यर्थः, सततं निरंतरं, अस्तु वर्तताम् , प्रार्थनायां लोट् । तत्र हेतुगर्भ विशेषणमाह-स्वाधीनेति; स्वाधीनः स्वस्यैव आयत्त: अतः सुलभ इति भावः, अभीष्टजनेन प्रियेण स्वपत्या अपरेण कामुकेन वा स्वपल्या अपरया स्वाभिलषितया वा इत्यपि, समाश्लेष: आलिंगनं यत्र, तथाभूतः सन् ।
____८९१ करतलतालोद्भुजं (गो)। मुहुरपि (प. स्तं ) ८९२ श्लेषात् (प. स्तं. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com