________________
कुट्टनीमतम् ।
तुल्यशिशु तरुणदृद्धं समगुप्ता गुप्तयुवति सविचेष्टम् । अगणितवाच्यावाच्यं क्रीडन्ति जनाः प्रवृद्धहर्षेण ॥ ८८९ ॥ पिष्टातकपिञ्जरितं सुचिरोच्छ्रितविविधकुसुमनिर्यूहम् ।
गात्रायाससमुत्थित बहुनिः श्वासप्रकीर्णपटवासम् ।। ८९० ॥
३४७
I
त्यदर्पणे ६।१४६ ) इति, पश्यपश्येति द्विरुक्तिः हर्षे, तदुक्तं - "विषादे विस्मये हर्षे, खेदे दैन्येऽवधारणे । प्रसादने संभ्रमे च द्वित्रिरुक्तं न दुष्यति ॥ " इति ॥ ८८८ ॥ तुल्येत्यादिभिः सप्तभि: राजा नयनगोचरं पौराणां संक्रीडितं वर्णयति । जनाः पौराः, प्रवृद्धहर्षेण प्रमोदप्रवृद्धया वृद्धिंगतमनः प्रसादेन, क्रीडंति रमन्ते । कथमिति चतुर्भिःक्रियाविशेषणैः आह । तुल्याः शिशवः अल्पवयस्काः बालाः तरुणा: मध्यमवयसः युवानः वृद्धाः परिणतवयसः प्रौढाः यस्मिन् क्रीडनकर्मणि यथा स्युः तथा, अविग - ' णितवयोभेदजन्यविवेकं इत्यर्थः । पुरुषाणां वृत्तमुक्त्वा स्त्रीणां अपि तदाह समेति, तथा समाः तुल्याः गुप्ताः युवतयः गृहिण्यः कुलीन स्त्रियः, अगुप्ताश्च युवतयः वेश्याः गणिका: यथा स्यात् तथा, त्यक्तलजस्त्रीकं इत्यर्थः । अपि च सविचेष्टं विशेषेण विविधा वा चेष्टा: विचेष्टा: हास्यजनककर्माणि ताभिः सहितं यथा स्यात् तथा, सपरिहासक्रियं इत्यर्थः ; 'परिगुप्तागुप्तयुवतिपरचेष्टं ' इति पाठे परिगुप्ताः गृहे एव स्थिताः अगुप्ताः च रथ्यासु गमनागमनं कुर्वत्यः या युवतयः तासु पराः चेष्टाः पुरुषाणां अस्मिन् क्रीडनकर्मणि यथा स्युः तथा इत्यर्थः, तादृश्यः सर्वा अपि सर्वैः कृतखेला इति भावः । अगणितवाच्यावाच्यं इदं बालेभ्यः गुरुभ्यः स्त्रीभ्यः तत्सन्निधौ च वाच्यं न वा वाच्यं इति अनादृत्यैव अविशेषेण अश्लीलादिवाक्प्रवर्तनं यथा स्यात् तथा । इत्येतत् पश्येति पूर्वस्याः आर्यायाः आकृष्यते ॥ ८८९ || स्वभावतः क्रीडाप्रतिकूलमपि वृद्धजनं क्रीडन्तं दृष्ट्रा पिष्टशतकेत्यादिभ्यां द्वाभ्यां तं वर्णयन् मदनमहोत्सवस्य सर्वोत्कृष्टत्वं सूचयति । परस्परोपरि निःक्षिप्यमाणेन पिष्टातकेन पिञ्जरितं पीतीकृतं, पिष्टातकः पटवासक: हरिद्रातंडुल कुंकुमादिभिः निर्वर्तितं चूर्णद्रव्यं उत्सवेषु उपयुज्यमानं, 'गुलाल' 'बुका ' वा इति भाषायां प्रसिद्धम् । रत्नावल्यां तु भेदेन राजोक्ति:- "कीर्णैः पिष्टात कौधैः कृतदिवसमुखैः कुंकुमक्षोदगौरैः । " ( १ १० ) इति, विदूषकोक्तिश्च - " प्रकीर्णपटवासपुंजपिंजरीकृतदिशामुखस्य मदनमहोत्सवस्य " इति ॥ तथा सुचिरं दीर्घकालं, उच्छ्रिता:
८८९ परिगुप्ता० (गो) । युवतिपरचेष्टं ( प. स्तं ) । क्रीडति जनता प्रवृद्धहर्षरसा ( प. स्तं. गो २ ) ८९० रुचिरोच्छ्रित (का) रचितोल्बण विविध "त्थितसमधिकनिःश्वासकीर्णपदगीतं (प. स्तं ) [ मूलाननुरोधी पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com