________________
कुट्टनीमतम्।
३४५
सः इत्यन्ये “वसंत: कुंभमीनयोः” इति दर्शनात् इति; अपि च " मधुमाधवी वसंतः, फाल्गुनचैत्रौ वसंतः” इति सुश्रुते सूत्रस्थाने षष्ठाध्याये । तस्य चर्चरौं इति-" चर्चरी वाद्यविशेषः इति केचित् , गीतभेद इत्यन्ये, अनेकशब्दानां मिश्रीभवनं इत्यपरे, हर्षक्रीडा इतीतरे (सुभूतिः ), करशब्द इति परे (रुद्रः)" (इति रत्नावली-प्रभायां,); "कापटिकानां सादरवचनं तौर्यत्रिकं चेत्यन्ये, वसंतसमयक्रीडा इत्येके इत्यमरटीकायां भरतः, हर्षक्रीडावाक् तत्पर्यायः चर्भटी इति हेमचंद्रः ।" इति शब्दकल्पद्रुमः । प्रकृते तु 'द्रष्टुं । इति पदसान्निध्यात् हर्षक्रीडां इति अर्थो ग्राह्यः । कुसुमायुधपर्वचर्चरीं द्रष्टुं इति ‘मदनमहमहीयांसं पुरजन प्रमोदमवलोकयितुं' इति रत्नावलीस्थपदानामनुवादः । मूलरत्नावलीनाटिकायां यौगंधरायणोक्तौ तु-'चर्चरीध्वनिः', इत्यत्र अग्रे विदूषकोक्तौ च 'चर्चरीशब्दमुखररथ्या-' इत्यत्र गीतिविशेष एवार्थः, तत्रतत्र तस्य मृदंगादिवाद्यानुगतत्वोक्तेः । पुनः तदने तस्यैवोक्तौ "मामप्येतचर्चरिकं शिक्षयतम् ।" इत्यत्र, अग्रे च दास्योक्तौ-"न खलु एषा चर्चरी।" इत्यत्र सर्वत्र तथैवार्थः। तथा च विक्रमोर्वशीयप्रकाशिकायां रंगनाथ:-"चर्चरीसंज्ञो गीतिविशेषः, यदुक्तं-" द्रुतमध्यलयं समाश्रिता पठति प्रेमभरान्नटी यदि । प्रतिमंठकरासकेन वा द्रुतमध्या प्रथमा हि चर्चरी ॥” इति । तथा संगीतरत्नाकरेऽपि प्रबंधाध्याये (४)-" रागो हिंदोलकस्तालश्चच्चरी बहवोऽज्रयः । यस्यां षोडश मात्राः स्युद्वौद्वौ च प्राससंयुतौ। सा वसंतोत्सवे गेया चचरी प्राकृतैः पदैः (॥ २९२ ॥) चच्चरीच्छंदसेत्यन्ये क्रीडातालेन वेत्यपि । घुत्तादिच्छंदसा वाऽस्य च्छंदोलक्ष्मोदिता भिदाः (॥ २९३ ॥)" इति । अपि च रूपकाणां मध्ये केचित् पदार्थाभिनयात्मकाः नृत्यविशिष्टा: अवान्तरभेदाः तोटकादयः विंशतिः । तत्रैको यः नाट्यरासकः स एव चर्चरी । तदुक्तं भावप्रकाशे नवमाधिकारे-“कामिनीभिर्भुवो भर्तुश्चेष्टितं यत्र नृत्यते । रागावसंतमालोक्य स शेयो नाट्यरासकः ॥ चर्चरीति च तामाहुवर्णतालेन तत्र तु । प्रविशेत्कामिनीयुग्मं समरथ्यादिशिक्षितम् ॥ वामदक्षिणसंचारैरंगैस्तत्त. त्परिष्कृतम् । ततस्तदेव वर्णान्त आलीढद्वयसंस्थितम् ॥ छोटिकादिद्रुतं तालो वादकानां प्रदर्शयेत् ।" इत्यादि । एवमेव कर्पूरमंजरीसट्टके चतुर्थजवनिकान्तरे "ततः प्रविशति चर्चरी ।" इत्यत्र चर्चरीशब्दः तथैव व्याख्येयः। विस्तरेण वर्णिता च सा बहुविधा तत्रैव विदूषकेन (४।९-१७), तत्र च " मुक्त्वा अन्या मणिवारणानि (काणि ?) यंत्रैर्धारासलिलं क्षिपंति । पतन्ति ताश्च प्रियाणामंगे मनोभुवो वारुणबाणकल्पाः॥" इत्यादि । वत्सराजं उदयनं, निर्दिश्य सूचयित्वा, समनंतरकार्यसिद्धये स्वकर्तव्यशेषं राज्ञः रत्नावलीपाणिग्रहणहेतुभूतं तस्य सिद्धये तन्निष्पत्त्यै करणीयसंबद्धं विचारं कर्तु इत्यर्थः, निरगात् कोलाहलरहितं स्वगृहं गतवान् । अत्र रत्नावल्या · अये, मधुरमभिहन्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com