________________
३४४
दामोदरगुप्तविरचितं
1
प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् । निर्दिश्य वत्सराजं समनन्तरकार्यसिद्धये निरगात् ॥ ८८६ ॥
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ " ( १ | ६ ) इति सूत्रधारवाक्यमेव पठतः यौगंधरायणस्य शब्दग्रहणेन प्रवेश: । तत: सूत्रधारनट्योः निष्क्रान्तेः अनंतरं, अमात्यः प्रविवेश प्रविशति स्म, रंगं इति शेषः ।] अमात्यः यौगंधरायण इत्यर्थः । [ अमात्य: अमा सह राज्ञा भवः तेन “ अव्ययात् त्यप् ” ( पा० ४ |२| १०४ ) इति त्यप्प्रत्ययः, स च " शान्तो विनीतः कुशलः सत्कुलीनः शुभान्वितः । शास्त्रार्थतत्त्वज्ञो (गो ? ) ऽमात्यो भवेद्भमिभुजामिह ॥” इति युक्तिकल्पतरौ उक्तः । स कीदृशः, दुर्घटसंघटनेन असंभाव्यसंयोगनिष्पत्त्या, सविस्मय: आश्चर्यान्वितः, विस्मयश्च–“ विविधेषु पदार्थेषु लोकसीमातिवर्तिषु । विस्फारचेतसो यस्तु स विस्मय उदाहृतः ॥” इति साहित्यदर्पणे लक्षितः । तथा च रत्नावल्यां- “ अन्यथा क्व सिद्धादेशप्रत्ययप्रार्थितायाः सिंहलेश्वरदुहितुः समुद्रे प्रवहणभंगनिमनायाः फलकासादनं, क्व च कौशाम्बीयेन वणिजा सिंहलेभ्यः प्रत्यागच्छता तदवस्थायाः संभावनं, रत्नमालाचिह्नायाः प्रत्यभिज्ञानादिहानयनं च ॥” इति तदुक्तिः । पुनश्च क्षितिनाथस्य राज्ञः उदयनस्य, उदयेन संघट्यमानरत्नावलीपरिणयेन भाविन्या सार्वभौमपदप्राप्तिरूपया समुन्नत्या, मुदित: हर्ष प्राप्तः च । तथा च तत्रैवाग्रे तद्वचनं
""
( सहर्षम् । ) सर्वथा स्पृशंति नः स्वानिमभ्युदया: ।" इति । इदं च - "येयं सिंहलेश्वरस्य दुहिता सा सिद्धेनादिष्टा यथा - योऽस्याः पाणिग्रहणं करिष्यति स सार्वभौमो राजा भविष्यति " ( रत्ना ० ४ ) इत्येतन्मनसि निधाय ॥ ८८५ ॥ सः अमात्यश्च - प्रासादं राजगृहं सप्तभूमिकं, आरुहन्तं निश्रेणिकया उपरिभूमिकाविशेषं गच्छन्तं किमर्थमित्याह - कुसुमायुधपर्वचर्चरीं द्रष्टुमिति । कुसुमायुधः पुष्पबाणः मदन: तस्य पर्व महः उत्सव:- ' सुवसंतक: ' ' वसंतोत्सवः ' ' चैत्रपर्व ' ' चैत्रोत्सवः ' इति वा ख्यातः स च चैत्रे शुक्लत्रयोदशीं आरभ्य कृष्णप्रतिपदं यावत् मदनस्य व्रतपूजा संगीतादिभिः निर्वर्त्यः । तथा च स्कन्द पुराणे - " मधुमासे तु संप्राप्ते शुक्लपक्षे चतुर्दशी । प्रोक्ता मदनभुञ्जीति सिद्धिदा तु महोत्सवे ॥ ... चैत्रे मासि चतुर्दश्यां मदनस्य महोत्सवः ॥ जुगुप्सोक्तिभिस्तत्र गीतवाद्यादिभिर्नृणाम् । भगवांस्तुष्यते कामः पुत्रपौत्रसमृद्धिदः ॥” इति । ( मधुः वसंतर्तुः, वसंतश्च वसन्ति अत्र मदनोत्सवा : ) इति अन्वर्थनामायं ऋतु:, स च चैत्रवैशाखमासद्वयात्मकः इति केचित्, फाल्गुनचैत्रात्मकः
८८६ चर्चरीर्द्रष्टुम् (स्तं ) । वत्सनाथं ( प. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com