________________
कुट्टनीमतम् ।
सूचित पात्रागमन: कियन्ति दत्वा पदानि ललितानि । निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ।। ८८४ ॥
आश्रित्य कथोद्वातं प्रविवेश ततः सविस्मयोऽमात्यः । दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥ ८८५ ॥
३४३
9
सारितया प्रयोगयोग्यः, तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते ।” इति । तया समं सह, स्वगृहकार्य संलापं स्वदुहितुः देशान्तरस्थाय वराय दत्ताया: पाणिग्रहण संबंधिनीं चिंतां अधिकृत्य आलापं कृत्वा । अनेन प्रस्तावनाया: अपरं अंगं आमुखाख्यं प्रस्तावितम् । ( केचन आमुखं प्रस्तावनायाः नामान्तरं मन्यन्ते । ) तल्लक्षणं च - " सूत्रधारो नटीं ते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ 97 ( दशरूपके ३७-८) इति । ( मारिष: नटः । ) ॥ ८८३ ॥ प्रस्तावनामुपसंहरति सूचितेति । सूचितं बोधितं, पात्रस्य प्रकृते गृहीतवत्सराजप्रधानयौगन्धरायणभूमिकस्य, आगमनं रंगप्रवेश: येन, "आर्ये, नन्वयं मम यवीयान् भ्राता गृहीतयौगन्धरायणभूमिकः प्राप्त एव " इत्यादिना, सः सूत्रधारः, कियंति त्रिचतुराणि ललितानि शोभनानि, पदानि, दत्त्वा परिक्रम्य, अनाविद्धगतेन इत्यर्थः, गृहिण्या नव्या, सार्धं सह, निःसरणगीतेन नैष्क्रामिक्यां ध्रुवायां नेपथ्यगतैः नटैः गीयमानायां निश्चक्राम रंगात् जवनिकान्तः अपसरति स्म । तथा च ध्रुवायोगात् गानं पंचविधं, यदाह भरतः - " प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् । गानं पंचविधं विद्याद्भुवायोगसमन्वितम् ॥ " ( ३२|३१७ ) इति । तत्रैकं नैष्क्रामिकीध्रुवाख्यं तद्विनियोगमपि स आह - "अंकान्ते निष्क्रमणे पात्राणां गीयते प्रयोगेषु । निष्क्रामोपगतगुणं विद्यान्नष्क्रामिकीं तां तु ॥ " ( ३२ ३१९ ) इति । ( अंक: अत्र प्रस्तावनोप्रवेशकादीनां उपलक्षणम् ) ॥ ८८४॥ इतः अंकवस्त्वारंभ:, तत्र द्वाभ्यां शुद्धविष्कंभकवस्तु संक्षिपति आश्रित्येति । आश्रित्य अनुसृत्य । कथोद्घातं - रूपके आमुखं कथोद्घातादिभेदैः त्रिविधं तत्र प्रकृते कथोद्घातरूपं तत् । कथोद्घातश्च - " स्वेतिवृत्तसमं वाक्थमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत् पात्रं कथोद्घातो द्विधैव सः || ” ( ३९ - १० ) इति दशरूपके उक्तः । ( स्वस्य प्रवेशिनः पात्रस्य । अर्थ वाक्यार्थम् । द्विधा स्वेतिवृत्तसमशब्दग्रहणेन वाक्यार्थग्रहणेन च इति । ) प्रकृते " द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् ।
८८४ किंचिद्रत्वा पदानि निपुणानि ( गो. का ) ८८५ आश्रित्य पदोद्वातं (गो. का ) [ शास्त्रविरुद्धः पाठः ] । यो नृपामात्यः ( प ) [ मात्राधिक्यमत्र ] | दुर्घटघटनेन ( गो . का ) । [ का . उत्तरार्ध दुष्टम् ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com