________________
३४२
दामोदरगुप्तविरचितं
अष्टकला परिमाणां ध्रुवां च परिकल्प्य ताललययुक्ताम् । आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥ ८८३ ॥
""
पश्चिमदेशस्य, यस्य कौशांची राजधानी आसीत्, तस्य ईश्वरस्य राज्ञ: उदयनाख्यस्य चरितं, प्रकृते तस्य रत्नावल्याख्य स्त्रीरत्नप्राप्तिरूपं श्रीहर्षेण रत्नावल्याख्यनाटिकानामरूपकभेदे परिणामितं, तस्य । विधेयं प्रयोगः तस्मिन् दाक्ष्यं निपुणता प्रयोगविषयिका, तथा च विधेयदाक्ष्यं विनियोगचातुर्य, नायकपरिजनादीनां अनुकार्याणां अवस्थानुकृतौ कौशल्यं, तस्य साक्षात्कारायमाणत्वपरिपोषकत्वस्य सामग्र्या समस्ततया संपूर्णया संपत्त्या इत्यर्थः । उत्साहभावयुक्तः इति पदं रत्नावल्यां सूत्रधारवाक्ये–“ अद्याहं वसंतोत्सवे सबहुमानमाहूय • • •राजसमूहेनोक्तः” इत्युक्तेः अनुवादकम् । आर्यास्थः शेषश्च रत्नावलीगतस्य- "अये, आवर्जितानि च मया सकलसामाजिकानां मनांसीति मे निश्चयः । यतः -श्रीहर्षो निपुणः कविः, परिषदप्येषा गुणग्राहिणी, लोके हारि च वत्सराजचरितं, नाट्ये च दक्षा वयम् । ” (१।२) इत्यस्य छायारूपः । अनेन प्रस्तावनायाः प्ररोचनाख्यं अंगं प्रस्तावितं, तलक्षणं च - " निवेदनं प्रयोज्यस्य निर्देशो देशकालयोः । काव्यार्थसूचकैः शब्दैः सभायाश्चित्तरंजनम् ॥ इति ॥ ] 'कविषु नैपुणं यस्य असौ कविनैपुण: ' [ इति टिप्पणी | ८८२ ॥ आमुखापरनामकप्रस्तावनायाः अंगं नट्याह्वानं तत् नट्या सह आलापं च वर्णयति अष्टेति । तत्र नट्या: आह्वानं नेपथ्यशालावलोकनपूर्वकं अत्र प्रयोगे ध्रुवया कृतम् । तत्सामान्यलक्षणं भरतोक्तं –“ यानि चैवं निबद्धानि च्छंदोवृत्तिविधानतः । मुखप्रतिमुखादीनि गीताङ्गान्येव सर्वशः । यदात्मकानि तानि स्युर्ध्रुवासंज्ञानि नाटके || ” इति संगीतरत्नाकरटीकायां कल्लिनाथेन उदाहृतम् । तां विशिनष्टि अष्टेति, अष्टौ कलाः परिमाणं मात्रा कालेन मितत्वं यस्या: तां, कला चात्र पंच निमेषा: (नाट्य ० ३१ ३ ) नाम पंचलघ्वक्षरोच्चारभितः कालः; तथा तालेति, तालः वादित्रसंभवः कालेन नर्तनगलवादनक्रियाणां मानं, ते च चंचत्पुटादयः; लयः लीयंते श्लिष्यंते अनेन इति यद्वा लयंति व्रजेति साम्यं गीतादयोऽत्रेति लयः, गीतवाद्य पादन्यासानां क्रियाकालयोः परस्परं तस्मात्तेन समता, ताभ्यां युक्ताम्; तथाहि लयस्थानविवर्जनं तु गायकदोषाणां एक:, रहितां इति भाव: । 'तानलययुक्तां' इति पाठस्तु ध्रुवालक्षणविरोधी इति अनुपादेयः । तादृश्या ध्रुवया गानविशेषेण, नटीं नटगृहिणीं, आहूय, तथाहि काव्यानुशासनविवेके हेमचंद्रः–“यादृशा लयतालादिना याह गर्थसूचनयोग्योऽभिनयः सात्त्विकादिः प्रघानरसानु
८८३ ध्रुवां परिक्रम्य ( प. स्तं ) । तानलय ० ( गो. का )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com