________________
कुट्टनीमतम् । उत्साहभावयुक्तः सामाजिकहदयरञ्जनं कुर्वन् । कविनैपुणवत्सेश्वरचरितस्य विधेयदाक्ष्यसामग्र्या ।। ८८२॥
'नान्द्यन्ते सूत्रधारः । इत्यनन्तरमेव 'वेदान्तेषु--' इत्यादिश्लोकलिखनं दृश्यते । यच्च पश्चात् 'नान्द्यन्ते सूत्रधारः । इति लिखनं तस्यायमभिप्राय:-नान्द्यन्ते सूत्रधारः इदं प्रयोजितवान् , इतःप्रभृति मया नाटकमुपादीयत इति कवेरभिप्राय: सूचित इति ।" इति । अत्रोक्तं-" पूर्वरंगं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः ॥" (दशरूपके ३।२) इति । (अत्र पूर्वरंगमित्यनेन तस्यांगभूता नान्दी अपि संगृहीता। नट: स्थापकसूत्रधारः, यत्संबंधात् प्राचीनतरनाटकेषु प्रस्तावना ' स्थापना' इति व्यवहृता ।) तत्र पूर्वरंगस्य द्वाविंशतिसंख्याकाङ्गेषु नान्द्याः अवश्यकर्तव्यतया तस्याः पद्यरूपतया च सा कविभिरेव नाटकादौ निबध्यते, यथा श्रव्यकाव्यादौ मङ्गलम् । उक्तं च-" यद्यप्यंगानि भूयांसि पूर्वरंगस्य नाटके तथाप्यवश्यं कर्तव्या नांदी नंदीश्वरप्रिया " ( विघ्नोपशान्तये ।) ॥ इति केचित्त एक एव सूत्रधारः पटान्तरित: सन् नान्दी पठित्वा रंगं प्रविशति वदति च इत्याहुः । प्रबोधचंद्रोदयटीकाचंद्रिकायां तु-" यदा तु सूत्रधार एव नान्दी प्रयुने तदा स्थापकनामा सूत्रधारवेषधारी कश्चन प्रविशेत् । यदा नान्दी कुशीलवाः प्रयुंजत तदा सूत्रधारस्ये( स्यै ? )व प्रवेशित (प्रवेश ?) इति ।" इति समाहितम् ॥ प्रकृते नान्दी पूर्वरंग एव अंतर्भाव्य स्थापकसूत्रधारस्य प्रवेश उक्तः ॥ ८८१ ॥ तस्यैव प्रस्तावनान्तं कर्म त्रिभिर्विशेषकेण आह उत्साहेत्यादिना । उत्साहाख्यः भाव: चित्तवृत्तिः उत्साहभावः, उत्साहश्च" कार्यारंभेषु संरंभः स्थेयानुत्साह इष्यते ।" इति कर्णभूषणे । तादृशः सन् , सामाजिकानां समाजे समवेतानां सभ्यानां सहृदयप्रेक्षकाणां उत्कृष्टनाटकप्रयोगदर्शनेन तदर्थरसास्वादिनां, “ सभायामुपविष्टा ये सभ्याः सामाजिकाश्च ते ।" इति कोशः, तद्गुणाश्च-"प्रयोगज्ञाः धनिनो युवानः कृतकृत्याः।" इति प्रपंचहृदये, हृदयरंजनं कुर्वन् चित्तानंद जनयन् , तेषां आभिमुख्य संपादयन् इति भावः, तदुक्तं अनर्घराघवे-"प्रीतिर्नाम सदस्यानां प्रिया रंगोपजीविनः ।' (१३) इति, कया विधया इत्युत्तरार्धेणाह कवीति । कविनैपुणं यत् वत्सेश्वरचरितं तस्य-कवेः श्रीहर्षस्य, नैपुणं निपुणस्य भावः कर्म वा नैपुणं " हायनान्तयुवादिभ्योऽण् " (पा. ५ । १ । ३०) इति अण् , तच्च वत्सानां जनपदस्य प्रयागात्
८८२ सामाजिकचित्तर० (प. स्तं)। कविनिपुणे ''प्याः (4) कविनैपुण (स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com