________________
कुट्टनीमतम् ।
वांशिकदत्तस्थानकतद्भावितभिन्नपञ्चमे सम्यक् । प्रावशिक्यवसाने द्विपदीग्रहणान्तरेऽविशत् सूत्री ॥ ८८१ ॥
इति भावः ॥ ८८० ॥ ] 'वांशिकेति । इतःप्रभृति प्रदर्शितरत्नावलीनाटिकाप्रथमाङ्ककथा अथ्यते । [इति टिप्पणी । इतः चक्रवर्तिश्रीहर्षप्रणीतरत्नावलीनाटिकायाः प्रस्तुतां प्रथमाङ्कस्य नाट्यप्रयोगविधिं विस्तरेण ९२८ आर्या यावत् वर्णयति । स च प्रयोगः न केवलं वर्तमानरत्नावलीपाठानुसारेण, किंतु पूर्वोक्त(८०५ आ. टी. )रीत्या नाट्यसूत्रिणा गेयाद्यशै: मिश्रित: इति प्रस्तुतवर्णनात् अनुमीयते ॥ तत्रादौ 'नान्द्यन्ते सूत्रधारः' इत्यन्तं भागं प्रस्तुतप्रयोगानुसारिणं अनुवदति वांशिकेति । वांशिकः वंशशब्दस्य वंशवादने लक्षणावृत्तिस्वभावात् वंशवादनं शिल्पमस्येति वांशिकः, "शिल्पम् ।" (पा. ४।४।५५) इति सूत्रेण ठक्प्रत्ययः । तेन, दत्तं गातृणां अनुसरणाय वंशस्वरविशेषेण प्रकाशितं, स्थानकं स्थानमेव स्थानकं, स्थानं च पूर्व (८०४ आ. टी.) उक्तं, तेन भाविते वासिते मेलापके कृते वा, भिन्नपंचमे मध्यमस्वरश्रुतियुक्तः पंचमस्वरः भिन्नपंचमः तस्मिन् ; सम्यक् वंशीस्वरगातृस्वरयोः अविसंवादे इत्यर्थः । प्रकृते संगीतदामोदर:-" स्थानकादिनयाभिज्ञो गमकाढ्यः स्फुटाक्षरः। शीघ्रहस्त: कलाभिज्ञो वांशिको रक्त उच्यते ॥” इति, तथा-... 'गातॄणां स्थानदातृत्वं तदोषाच्छादनं तथा । वांशिकस्य गुणा एते मया संक्षिप्य दर्शिता: ॥” इति च । तथा च गातृस्वरस्थापनार्थ भिन्नपंचमस्वेरण वाद्यमाने वंशके इत्यर्थः ॥ प्रावेशिक्यवसाने-प्रावेशिक्या: अवसाने अंते, प्रावेशिकी च ध्रुवाविशेषः आक्षिप्तिकाविशेषो वा, सा च पात्रप्रवेशसूचनार्थ नटैः (भावैः ) जवनिकान्तरे गीयमानः गीतविशेष:, यथा विक्रमोर्वशीये चतुर्थाकप्रवेशके सहजन्याचित्रलेखयोः प्रवेशे, अग्रे च तदंकारंभे पुरूरवस: प्रवेशे; सा च आर्या(गाहा)च्छंदसा निबध्यते । तथाहि-" आक्षिप्तिकालक्षणमाह भरत:-" चञ्चत्पुटादितालेन मार्गत्रयविभूषिता । आक्षिप्तिका स्वरपदग्रथिता कथिता बुधैः ॥” इति । पात्रप्रवेश एव तस्या निवेशः ।" इति विक्रमोवंशीयप्रकाशिकायां रंगनाथः । तथा च सूत्रधारप्रवेशसूचनार्थ गीतायाः प्रावेशिकीध्रुवायाः समाप्तौ इत्यर्थः, तदुक्तं भरतेन-" स्थापकस्य प्रवेशे तु कर्तव्याऽर्थानुगा ध्रुवा ।" ( ५।१५५ ) इति, (स्थापकः स्थापकसूत्रधारः । ) अनेन नाटकारंभे
८८१ दत्तकस्था० (गो. का)। स्थानक उद्ग्राहितभिन्नपञ्चमे (प. स्तं)।प्रावेशिका (प. स्तं)। न्तरे विशति सूत्रीम् (का) [दुष्टः पाठः ।]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com