________________
३३८
दामोदरगुप्तविरचितं विज्ञापयाम्यतस्त्वां नरेन्द्र नाट्यप्रजासदृशम् । अवलोकयाडून्मेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८७९ ॥ इति कथयनरमतुः पुत्रेण स चोदितो भ्रुवोन्नतया । रचित सकलातोये नियोजयामास सूत्रधृतम् ।। ८८० ॥
आश्रितनर्तकवृत्ते: नर्तकस्य, विजितरंगस्य नृत्यभूमौ संप्राप्तकीर्ते:, विशेषत: आधिक्येन, अन्यशिल्पिभ्यः इति भावः, भवति । तथाचोक्तं-" असंबद्धप्रलापी च सदा भ्रकुटितत्परः । हासप्रहासचतुरो वाचालो नृत्यकोविदः ॥” इति संगीतदामोदरे ॥८७८॥ तद्वचनमनूद्यते विज्ञापयामीति । अत: उक्तप्रकारेण स्वभावजात् घाष्टात् । हे नरेन्द्र जनाधिप इति संबोधनम् । नाट्यप्रजासदृशं नाट्यप्रिया प्रजा नाट्याजा, शाकपार्थिवादिवत् समासः, तस्याः सदृशं योग्यं अतः प्रीतिकरं इत्यर्थः, एकं अङ्कं " रत्नावल्यामेता विदधति करपादविक्षेपम् ।" (आ. ८०१) इति पूर्वमुक्तत्वात् रत्नावलीनाटिकायाः इति लभ्यते, एकं इति तस्य संपूर्णनाटिकाप्रयोगावलोकनोचितसमयाभावात् , अंकं अंक: अंक्यते नायकतादात्म्यं नटेन अत्र इति, स च नाटकपरिच्छेदस्य संज्ञा, तल्लक्षणं तु-"प्रत्यक्षनेतृचरितो बीजबिन्दुसमन्वितः । अंको नानाप्रकारार्थसंविधानरसाश्रयः ॥ एकाहे चैकरात्रे वा चरित्रं यत्र वर्ण्यते । प्रयुक्तै: पंचषैः पात्रैरन्ते तेषां विनिर्गमः ॥” इति, तं, अवलोकय पश्य । तेन च, मम श्रमः एतासां नर्तकीनां नाट्यशिक्षणे मत्कृतः प्रयासः, वंध्य: निष्फल:, मा भवतु न जायतां, भवद्रूपानुरूपप्रेक्षकदर्शनेन स सफलीभवतु इत्याशयः ॥ ८७९ ॥ इति पूर्वोक्तप्रकारेण, कथयन् विज्ञापनां कुर्वन् , नरभर्तुः राज्ञः पुत्रेण सुतेन सिंहभटतनयेन, उन्नतया भ्रवा लीलया एकां भ्रुवं उन्नम्य इत्यर्थः, " कोपे वितर्के हेलायां लीलादौ सहजे तथा। दर्शने श्रवणे चैव ध्रुवमेकां समुक्षिपेत् ॥” (नाट्य० ८।११८) इति भरतः, चोदितः प्रेरितः, स: नर्तकाचार्य:, सकलातोये रचिते सति नाट्योपयोगिषु वीणामुरजवंशीकांस्यरूपचतुर्विधेषु वाद्येषु स्वरमेलनादिना सजीकृतेषु, अनेन रंगविधानं उक्तं, सूत्रधृतं सूत्रधारं, तथा च "अनुष्ठानं प्रयोगस्य सूत्रमाहुः सबीजकम् ।" इत्युक्तेः सूत्रं धारयति इति सूत्रधृत नाट्यशिल्पवान् , तं, नियोजयामास आज्ञापयामास , नाट्यप्रयोगारंभं कर्तुं
८७९ आज्ञापया० ( गो २१)। निर्मितमाद्यं प्रजासृजा सदृशम् (प. स्तं)८८० विरचितस० (प. स्तं)।मास स प्रकृतम् (गो. का)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com