________________
कुट्टनीमतम् ।
सुषिरस्वरप्रयोगप्रतिपादनपण्डितो मतङ्गमुनिः । यदि रञ्जयन्ति हृदयं भवतो, भूमिस्पृशां कुतः शक्तिः ॥८७७॥ अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनो भवति । आश्रितनर्तकत्तेविशेषतो विजितरङ्गस्य ॥ ८७८ ॥
( ३५॥३७) इति । (तदाश्रित्य यथायोग्यं लक्षणया नट इत्यर्थः द्रष्टव्यः ।) कोहलादय: आदिना नंदिकेश्वरधूर्तिलजटिलादीनां संग्रहः, ते स्युः । तथा स्त्रीनाट्ये स्त्रीपात्रेषु अनुकार्यशकुन्तलादिस्त्रीभूमिकासु, अप्सरस: ऊर्वश्यादिस्वर्गाङ्गनाः भवेयुः । गान्धर्वे "अत्यर्थमिष्टं देवानां तथा प्रीतिकरं पुनः । गंधर्वाणां च यदिदं तस्माद्गान्धर्वमुच्यते ॥” ( नाट्यशास्त्रे २८।९) इत्युक्तेः संगीते इत्यर्थः, ] कमलजन्मनः [ विष्णोर्नाभिकमलाजातस्य ब्रह्मणः ] तनयः नारदो [मुनिः महर्षिः वा, तथा च मनुस्मृतौ--" अहं प्रजा: सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन्प्रजानामसृज महर्षीनादितो दश ॥ मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं ऋतुम् । प्रचेतसं वसिष्ठं च भृगु नारदमेव च ॥” (१।३४-३५) इति; " उत्संगान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयंभुवः ।" इति च पुराणे; स च नारदः स्वशिष्याय दत्तिलाय रागभेदादीन् उपदिदेश इति नारददत्तिलसंवादरूपे रागसागरे प्रसिद्धम् ॥ ] ८७६ ॥ वंशादिवाद्यं सुषिरम् । [ सुषिरं छिद्रयुक्तं, लक्षणया छिद्रयुक्तं वाद्यमपि सुषिरं उच्यते तेषां, स्वराणां प्रयोगाः विविधप्रकारैः योजना:, तेषां प्रतिपादने ऊहापोहेन कथने, पंडित: निपुणः, मतंगमुनिः मतंगनामा ऋषिः, अनेन तेन कश्चित् सुषिरवाद्यप्रबंधः प्रणीतः इति प्रतीयते । इमे नाट्यप्रयोगे मिलिताः यदि नाट्यप्रयोगं प्रवर्तेयुः तदा भवतो हृदयं स्वान्तं रंजयेयुः, भूमिस्पृशां मानां अस्मत्सदृशां इति भावः, कुतः शक्तिः सामर्थ्यम् । अस्मच्छिक्षितमानुषनर्तक्यादिभिः भवतां हृदयरंजनं असंभाव्यमेव इति भावः । इयं अतिशयोक्त्या दुराराध्योक्तिः तस्य चाटुः ॥८७७॥ वक्ष्यमाणां नाट्यावलोकनप्रार्थनां प्रस्तावयति अभ्यधिकमिति । धृष्टत्वं प्रागल्भ्यं, प्रायेण प्रायशः बाहुल्येन, शिल्पं नृत्यगीतचित्रादिकलाकर्म, 'हुनर' कारीगरी ' इति वा भाषायां, तत् आश्रित्य यः जीवति आजीविकां लभते सः शिल्पजीवी कारुचित्रकारसुवर्णकारकुशीलवादिः, तस्य, भवति, हिशब्द: प्रसिद्धौ । शिल्पजीवी वाचालः भवति इति प्रसिद्ध इत्यर्थः । तत्रापि
८७७ योगे प्रति (गो. का)। रंजयति (गो.प.का)। रंजयति भवतो भूमि स्पृशतां (का) स्पृशतः ( कापा) ८७४ जीविनां (कापा)।
૨૨
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com