________________
३३६
दामोदरगुप्तविरचितं
विनिवार्य तत्मवर्तितवाक्यविकासं नतोचमाङ्गेन । श्रीसिंहटभटतनयं समुवाच वचोऽथ नर्तकाचार्यः ॥ ८७५ ॥ 'नायकभूमौ भरतः कुशीलवाः कोहलादयो मुनयः ।
अप्सरसः स्त्रीनाव्ये गान्धर्वे कमलजन्मनस्तनयः ॥ ८७६ ॥ स्निग्धैर्जनपदवधूलोचनैः पीयमानः । " ( मेघ. १६) इत्यनेन इदमेव तत्त्वं सूचि. तवान् । (तथाहि मेघदूतटीकायां विद्युल्लतायां-" जनपदवध्वः' ' 'कृषीवलमहिलाः ।। भ्रविलासानभिज्ञैः..'नगरसुंदरीनयनारविन्दवत् कृत्रिमविलासविरचनास्वशिक्षितैरित्यर्थः । एतेन स्वारसिकविलासैरेव तेषां सहृदयचमत्कारकारित्वं ध्वनितम् । " इति । प्रीतिस्निग्धैरिति ‘अकृत्रिमप्रेमरसाभिरामा' तद्विलाससंपत् इति भावः।) ॥ ८७४ ।। अथ नर्तकाचार्यः राजपुत्रप्रलोभनाय इष्टं प्रसंगान्तरं अवतारयति विनिवार्येति । तया मंजर्याः मात्रा प्रवर्तितं वाक्यविकासं भाषणं, नतोत्तमाङ्गेन प्रतिषेधसूचकेन अवनतशिरसा, धुताख्यशिरश्चालनेन, तल्लक्षणं च-" पर्यायेण शनैस्तिर्यग्गतमुक्तं धुतं शिरः।" (संगीतरत्नाकरे ७५४) इति, विनिवार्य अलं इति सूचनेन प्रतिबंध्य । सिंहभट एव लोकोक्तौ सिंहटः, यथा मम्मभटः एव मम्मटः, केयभट एव कैय्यटः, वाग्भट एव वाहट:, इत्यादिप्रकारेण; सिंहटश्वासौ भटः वीरः सिंहटभटः, श्रिया लक्ष्म्या युक्तः सः श्रीसिंहटभटः, तस्य तनयं राजपुत्रम् । नर्तकाचार्यः-गणिकादीनां संगीताध्यापकः, "नृत्यस्य धारणात् पात्रं नर्तकः परिकीर्तितः । " इति, तेषां नर्तकानां नर्तकीनां च गीतवाद्यवृत्तेषु शिक्षागुरुः ॥ ८७५ ॥ तत्रादौ युग्मेन राजपुत्रस्य तौर्यत्रिकज्ञानस्य तत्परीक्षाशक्तेश्च चाटुं करोति नायकेति । नायकः"नयति व्याप्नोति इतिवृत्तं फलं चेति नायकः" (काव्यानुशासने) नाटकादौ प्रधानतया वर्ण्यमानः पुरुष: नेता, तस्य भूमौ भूमिकायां वेषकल्पनायां, भरतः नाट्यशास्त्रकता, यदि दैववशात् भवेत् चेत् इति शेषः, भरत: स्वयं नायकभूमिकां गृह्णीयात् इत्यर्थः, यदि च तत्र, कुशीलवा: अन्ये अभिनेतारः नटविशेषाः, “ भूमिकाभिरनेकाभिः कर्मवागङ्गचेष्टितैः । यथाप्रकृतिसंधानकुशलास्ते कुशीलवाः ॥” इति लक्षणात् । भरतानुसारेण तु कुशीलवाः वाद्यवादकाः, तथाहि-" नानातोद्यविधाने (न?) प्रयोगयुक्त प्रवादने कुशलः । आतोद्येऽप्यतिकुशलो यस्मात्स कुशीलवस्तस्मात् ॥" ___८७५ वाच्यविकासं (का)। श्रीसिंघट (प) । श्रीसिंहभटस्य सुतः.."चार्यम् (गो. का) [प्रस्तुतक्रमविरोधी पाठः] ८७६ भवतः (का) [अक्षरभ्रमजा अशुद्धश्च पाठः ] | स्त्रीलास्ये ( गो. का)। गन्धर्वाः क.""याः (प. स्तं) [ अनुचितार्थः पाठः ] ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com