________________
दामोदरगुप्तविरचितं
आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः । आवृत्त्या भ्रमति पुरो जातः खलु शालिकण्डने विघ्नः ॥८७१॥ त्वां लोष्टमाक्षिपन्तं पावस्थैः स्तूयमानसामर्थ्यम् । गृहकर्तव्यं त्यक्त्वा पश्यति सा द्वाररन्ध्रेण ॥ ८७२ ॥ त्वयि मार्गनिकटवर्तिन्यविचिन्तितखेदया तया सुभग ।
प्रत्यासनगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥ ८७३ ॥ खांखारितं ध्वनिविशेषानुकरणशब्दः, यद्वा देशीशब्दः, तत्प्रयोगश्च समाहितः पूर्वम् (३२१ आ. टी.) । त्वं, चः त्वर्थकः, नो नहि, वेत्सि विदितवान् , अत्र वेत्सि इति वर्तमाननिर्देशेन अद्यापि त्वं अनधिगततदनुरागो परममूर्ख एवासि इति सूच्यते, तथा तत्र अनागमनेन हस्तच्युतसुरतोत्सवस्य अहो ते मौातिशयः इति आकूतम् । अत्र नायिकायाः पामरीत्वेऽपि स्त्रीत्वात् आपेक्षिकं स्वाभाविकं पटुत्वं, नायकस्तु जड एव । तथा च निर्वणितं अर्जुनवर्मदेवेन अमरुकशतकटीकायां (१३)-"ग्रामीणाः प्रायो नायिकानुरागविदग्धवक्रोक्तिविरहवेदनानर्मभंगिष्वनभिज्ञा भवन्ति ।" इति ॥ ८७० ॥ तस्याः तदासक्ति वर्णयति आलिंगितेति । तस्याः पुरत: त्वयि, आवृत्त्या भ्रमति सति यातायातं कुर्वति, त्वयि एव अनुरागातिशयात् निविष्टचक्षुषः संलग्नदृष्टयाः, अत: विस्मृतकर्त्तव्याया:,] आलिंगितं साश्लेषं हस्तधृतं, [ मुसलं अयोऽग्रस्थूलकाष्ठदंड: तन्नाम्नैव प्रसिद्धः, यया तस्याः; शालि: कलम; 'साँठी चावल ' इति प्रसिद्धः घान्यविशेषः, तेषां कण्डने निस्तुषीकरणे मुसलाघातक्रियायां, विघ्नः अंतरायः जातः । तव दर्शने प्रकृतशालिकंडनव्यापारत्यागः तदनुरागस्य निदर्शनं इति भावः ॥ इयं अनुरागिणी । नायक: पूर्ववत् ॥ ८७१ ॥ अपि च लोष्टं धान्यभक्षणाय संप्राप्तपशुपक्षीणां उत्थापनार्थ मार्तिकशकलान् मल्लोष्ठखण्डान् इत्यर्थः, जातावेकवचनं, आक्षिपन्तं, हस्तेन ‘गोफण' इति भाषायां प्रसिद्धया उत्क्षेपण्या वा, ततः तेषां दूरपातात् हतलक्ष्यत्वात् वा; पार्श्वस्थैः निकटवर्तिभिः, अतः प्रत्यक्षीकृततद्धस्तलाघवैः, प्रशस्यमानबलं, त्वां, सा त्वदपहृतचित्ता आवश्यकमपि गृहकर्म परित्यज्य, द्वारगतच्छिद्रेण लजया अतिनिगूढं यथा नान्यः कश्चित्पश्यन्ती आत्मानं लक्षयेत्तथा पश्यति । इयं मुग्धा ॥ ८७२ ॥ अपरं इंगितमाह त्वयीति । सुंदरीकामितत्वात् हे
८७१ निविष्टचेतस० (गो. का) [औचित्यरहितः पाठः] । शालिखण्डन (गो. प. स्तं)। ८७२ त्वां वेलुकां क्षिपन्तं (प. स्तं) । पार्श्वस्थे (स्तं ) । वादरंध्रेण (स्तं) ८७३ 'न्यविचेतित० (गो. का)। कृतोऽभ(ज?)सा सातुरो (प) कृताम्भसामातुरो० (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com