SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम् । 'लग्नोऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् । अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ।। ८६९ ॥ उच्चेतुं कार्पासं प्रविष्टया गहनवाटिकां शून्याम् । . टङ्कारितेन संज्ञा कृता तया त्वं च वेत्सि नो मूर्खः ॥ ८७०॥ च पश्यति इति हृष्टचेतसः ग्रामविटस्य उपहास्यता स्पष्टा एव ॥ अत्र जलोनमनरूपात् प्रस्तुतात् कार्यात् विलक्षणस्य युवकचित्तोन्नमनरूपस्य कार्यस्य कथनात् द्वितीयो विषमालंकारभेदः ॥ ८६८ ॥ इत: पंचकेन ग्राम्यविटान् प्रति दूतिकोक्तिप्रकाराणां अनुवादाः । देवयात्रायां-देवानां चलमूर्तीनां तिथिविशेषेषु यात्रा नगरभ्रमणं ग्रामसीमादिपर्यन्तगमनं यदर्थं लोकैरपि उत्सवः क्रियते तस्यां, यद्वा देवार्चनोत्सवकाले मंदिरे एव, तथा च धरणि:-" यात्रा स्याद्यापनायां च गतौ देवार्चनोत्सवे ।" इति; देवेन प्रारब्धयोगात् दिष्टया, कथमपि बुद्धिपूर्वकं लोकसंघटनेन वा इति अतयंमाणं इति भावः, तस्याः, यत्र यस्मिन् , गात्रे शरीरावयवे, लग्नोऽसि कृतस्पर्शोऽसि, अनेन भावप्रबोधार्थ कृतं स्पृष्टकाख्यं आलिंगनं व्यञ्जितं, तथा चोक्तम्-" उत्सवे व्यसने देवयात्रायां रात्रिजागरे। क्रीडार्थगमने, सख्या: संमताया गृहान्तरे ॥ गृहे वा प्रतिवासिन्या जलार्थगमने तथा । एवमष्टविधे स्थाने योगं गच्छति कामिनी ॥” (२३-२४) इति कामप्रदीपे। तत् तद्गात्रं पुलकोद्गमकंटकं पुलकानां रोमाञ्चानां उद्गमाः प्रादुर्भावाः कंटका: इव पुलकोद्गमकंटकाः, ' जातावेकवचनं ' इति कंटकं, पामरीबालानां रूक्षत्वात् कण्टकोपमानं, अद्यापि गतेऽप्येतावद्दीघे काले, न मुंचति । अद्यापि सा त्वत्स्पर्शमात्रेण 'रोमाञ्चकंटकितवपुः । बिभर्ति इत्यतिशयोक्त्या तस्याः रागातिशयद्योतनं विटप्रलोभनार्थम् ॥ ८६९॥ तस्य संकेतानभिज्ञत्वेन अतिमौर्यमाह उच्चतुमिति । कार्पासं कर्पासस्य इदं, जातावेकवचनं, कार्पासफलानि इत्यर्थः, 'कालां ' इति भाषायां, उच्चेतुं तेषां अवचयं कर्तु, शून्यां निर्जनां, गहनवाटिकां कर्पासवृक्षः निबिडं क्षेत्रं इत्यर्थः, तथा च कार्पासं क्षेत्रे वाटिकायां च उप्यते, तत्र क्षेत्रगतं ' वनकार्पासं ' इत्युच्यते, तदत्रोद्दिष्टम् । ( अपरं 'हीरवणी । 'नरमो ' वा इति गुर्जरभाषायां प्रसिद्धम् । ) प्रविष्टया, त्वयि आसक्तया तया; टंकारितेन भाण्डाघातजशब्देन, यद्वा पक्ष्युड्डापनाय उपयुज्यमानस्य चापस्य ज्याकर्षणेन उत्पादितटणितिध्वनिना, संज्ञा सूचनीयार्थसूचनपरः चेष्टाविशेष:, कृता, "संज्ञा स्यान्चेतना नाम हस्ताद्यैश्वार्थसूचना ।" इति अमरः । 'खांखारितेन ' इति पाठे ८७० प्रविष्टया शून्यवाटिकागहनं (गो २. का)। खांखारितेन (प. स्तं)। कृता मया त्वं तु (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy