________________
३३०
दामोदरगुप्तविरचितं
घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः । ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विधोऽवश्यम् ॥ ८६३ ॥ नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् । नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥। ८६४ ॥
"
"
अत: राजकुमारमंत्रिणा कृतां पारदारिकप्रशंसां, आक्षेप्तुं निषेद्धुं वक्ष्यमाण उवाच ॥ ८६२ ॥ तत्रादौ परदाररत प्रशंसाव्याजेन गणिका: निन्दन्तं तमेव भर्त्सयति घटेति । ] घटयुवत्यः दास्य:, [ घटे: कुंभैः जलाहरणे नियुक्ताः युवत्यः स्त्रियः, 'पनीहारी' इति लोके वाच्यमानाः, तासु प्रगल्भः धृष्टः, नीचकोटिकः, अतः, नगरे भवा नागरिका अग्राम्या अत: विदग्धा, अनेन नासां भ्रूचेष्टितादिकोविदत्वं वरवस्त्राभरणादिप्रकाशमानत्वं वा सूचितं, तस्याः दर्शनेन तन्मात्रेणैव दूरे आलापादिकं इति भावः, हृतपुंस्त्वः मोहापन्नत्वात् नपुंसकतुल्य: मूढः इति यावत्, ग्रामोषितः ग्रामवासी ग्रामेयः, अतएव अविदग्धः अचतुरः भवद्विधः त्वादृशः, गणिकां कामकलादिसंपन्नां, निंदति, अवश्यं निश्चयेन, ततः इदं नाश्चर्यकरं इति भावः तादृश्या पराहतचित्तत्वात् । वस्तुतः तस्य अग्राम्यत्वेऽपि गणिकानिंदनात् तस्य ग्रामाधिवासावसेयत्वात् हेतुरलंकारः ॥ ८६३ || महता प्रबंधन सचिवेन कृतं कुलटासुरतप्रशंसनं दूषयति नेति । न आर्द्रयति न स्निग्धं करोति, ] ' अर्दयति ' [ इति पाठे ] प्रीणयति, [ मन: कर्म, अवगाहितेति अधीतकामशास्त्राणां सम्यगधिगततच्छास्त्र रहस्यानां इति भावः । जीवत्पतिबंधकीसुरतं कर्तृ, जीवन् विद्यमानः पतिः यस्याः तादृश्या बंधक्या कुलटया सह सुरतं, तत्र हेतुद्योतकं विशेषणं नखेति - कुचकपोलादिस्थलेषु कृताः कामोद्दीपका : नखदंतक्षता: लोकस्य पत्युर्वा नयनगोचरं गताः रहस्यभेदका भवेयुरिति तदभाववत्, अनेन भोगन्यूनतया आनंदन्यूनता सूचिता, तदेव च विदग्धरसिकानां अनाह्नादे बीजम् । अत्र नखेत्यादि - विशेषणस्य साभिप्रायत्वात् परिकरालंकारः । उक्तरहस्यभेद भयवर्जनार्थ विदग्धैः उपपतिभिः प्रसिद्धानि नखदंतक्षतस्थानानि विहाय अन्यत्र ते क्रियते इति विज्ञेयम्
"
८६३ प्रगल्भः सागरिका ( गो. का ) [ अपार्थकः पाठः ] । दर्शनहृत ( का ) ८६४ नार्दयति ( गो. का ) । केतुना स्त्रीणां ( का ) [ अपार्थकः पाठः ] । क्षत (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com