________________
३२८
दामोदरगुप्तविरचितं
माला । बहुलग्रहणाद्भद्रशब्दस्य परनिपातः । यद्वा भद्र इव रामो रामभद्रः, 'उपमितं व्याघ्रादिभिः-' इत्यादिना समासः, 'भद्रश्चापि गजान्तरे' इति रत्नमाला ।' इति महावीरचरितटीकायां (४।४४ ) वीरराघवेण समर्थितम् ॥ अस्यापि पूर्ववत् फलम् ॥ एवं ८११ आर्यामारभ्य ८६१ आर्यापर्यन्तं पञ्चाशता पारदारिकं प्रस्तुतम् ॥-यद्यपि पारदारिकं परस्त्रीविषयतया अधर्मपरिणामेन वैरस्याधायकं तथापि कारणवशात् क्वचिद्विहितं, लोकवृत्तत्वाच्च काव्येषु वर्णितम् । तथाहि तदुपदेशः अनंगरंगे (८।१३)-" नारी चोन्नतयौवनाऽभिलषितं कान्तं न चेदाप्नुयादुन्मादं मरणं च विन्दति तदा कंदर्पसंमोहिता । संचिन्त्येति समागतां परवधू रत्यर्थिनीं स्वेच्छया गच्छेत्वापि, न सर्वदा सुमतिमानित्याह वात्स्यायनः ॥” इति; तथा नागरसर्वस्वेऽपि" हित्वाऽऽत्मकामं शमयेद्वशी यो नितंबिनीनां मदनज्वरातिम् । कृपान्वितो मन्मथशास्रवेदी समाप्नुयात्स्वर्गसुखं स धीरः ॥ (१।४) तथा चाह महेश्वरः-'कामं त्यक्त्वाऽऽत्मनः कामी कामव्याधिनिपीडिताम् । चिकित्सयति यो नित्यं पदं प्राप्नोति कामिकम् ॥” (१५) इति ॥ एतादृशप्रसंगेषु न पुरुषस्य धर्मभंग: रागपरवशानां तत्संभोगाभावे प्राणान्धारयितुमसमर्थानां स्त्रीणां प्राणत्राणायैव तत्परिग्रहणात् । तथा च महाभारते आदिपर्वणि पार्थतीर्थयात्रायां अर्जुनं प्रति उल्लूप्याः वचनं-"परित्राणं च कर्तव्यमार्तानां पृथुलोचन । कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥ यदि चाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्वयतिक्रमः । स च ते धर्म एव स्याद्दत्त्वा प्राणान्ममार्जुन ॥” इति, "स्मरातः विह्वलां दीनां यो न कामयते स्त्रियम् । ब्रह्महा स तु विज्ञेयो व्यासो वचनमब्रवीत् ॥" इत्यपि । अत: अर्जुनोऽपि तत्स्वीकृतवानिति ॥ तदुक्तं काव्यालंकारे-" सर्वत एवात्मानं गोपायेदिति सुदारुणावस्थ: । आत्मानं रक्षिष्यन् प्रवर्तते नायकोऽप्यत्र ॥" (१४।१४) इति ॥ अस्य काव्योपनिबंधनमुद्दिश्य उक्तं रसिकसंजीवन्यां (अमरुकशतकटीकायां,)-" परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय, एवंविधसंविधानकैः स्त्रीणां चारित्रखण्डनं भवति तस्मात्प्रयत्नेनैता: संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वात्स्यायनो महर्षिस्तत्तदुपायसाधनैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च- संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान्। न याति च्छलनं कश्चित्स्वदारान् प्रति शास्त्रवित् ॥' इति" इति । " य एवंविधा विधयः परस्त्रीषु पुंसां संभवंति तानवबबुध्य परिहरेदिति कवीनां भावः।" इति च काव्यानुशासनविवेके । अत्र रुद्रटस्तु परकीयारतादेः रसाधायकत्वात् तद्वर्णनमात्रं काव्येषु अनुजानाति, तथा चोक्तं तेन-" नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्याः । कर्तव्यतयाऽन्येषां न च तदुपायोऽभिधातव्यः ॥ किन्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com