________________
कुट्टनीमतम् ।
त्रैलोक्यगता वैश्याः स्वाधीना यातुधाननाथस्य ।
तदपि जहार कलत्रं दशरथतनयस्य रामस्य ।। ' ८६१ ॥
८
अविस्मृतस्वपरमात्मभावः, गोप्यश्च चित्तवृत्तयः इति जीवन्मुक्तस्वरूपरूप कमवलंब्य तल्लीलावर्णनं बोध्यं तेन सर्वान्तर्यामितया सर्वशरीरकस्य तस्य स्वपरदेह विवेकाभावात् नित्यापहतपाप्मत्वाच्च न भगवतो दोषप्रसक्तिः इति मतम् ॥ पौराणिकास्तु पुरा किल देवयोषितो भगवत्सौंदर्यवशीकृताः तदुपभोगसिद्धिमुद्दिश्य तमेवार्चयामासुः । ततः प्रसन्नो भगवान् भूमाववतीर्य गोपभूमिकामवलंब्य भवतीनामभिलपितं करियामि, भवत्योऽपि गोपकुलेऽवतरंत्विति समयं ददौ, ता एवाप्सरस इमा गोपिका: इति' इति ऊचुः ॥ भागवतास्तु - " इयं हि क्रीडा शृंगाररसाकृष्टचेतसो बहिर्मुखानपि स्वचरितश्रवणपरान्कृत्वा संसारादुत्तारयितुं भगवता लोकानुग्रहैकरसिकेन कृता, 'अनुग्रहाय भक्तानां मानुषं देहमाश्रितः । भजते तादृशीं क्रीडां यां श्रुत्वा तत्परो भवेत् ॥ ' इति (श्रीमद् ) भागवतवचनात्, " ( यादवाभ्युदयकाव्यटीकायां ८ ६८ ) इति, तथाहि - " रागिणो हि संभोगपदश्रवणे स्वयमेव कुतूहलिनः प्रवर्तन्ते तच्च श्रवणं भगवद्रूपविषयमाहात्म्यादन्तःकरणशुद्धिमाधाय रागादिकं क्षपयति " ( यादवा ० टीका. ४ । १०१ ) इति चाहुः । तदेतदुक्तं यादवाभ्युदयमहाकाव्ये - " रागादिरोगप्रतिकारभूतं रसायनं सर्वदशानुभाव्यम् । आसीदनुध्येयतमं मुनीनां दिव्यस्य पुंसो दयितोपभोगः || ” ( ४|१०१ ) इति ॥ ८६० ॥ असुराणामपि परदारासक्तिमुदाहरति त्रैलोक्येति । त्रयो लोकाः स्वर्गमृत्युपातालाख्या: त्रैलोक्यं चतुर्वर्णादित्वात् स्वार्थे ष्यञ्, तद्गताः, त्रैलोक्यगता: " द्वितीया श्रित० " ( पा. २ | १|२४ ) इति द्वितीया - तत्पुरुषः, वेश्याः, यातुधानाः यातूनि रक्षांसि एव दधति - पुष्णंति न त्वन्यान् लोकान् इति यातुधानाः राक्षसाः, तेषां नाथः पतिः रावणः, तस्य स्वाधीना: त्रैलोक्यविजयित्वात् तदाज्ञावशवर्तिन्य:, ( असुराणां तामसत्वात् तेषु स्वीयासक्त्या: अभावात् पूर्ववत् तत्सूचनं नात्र कृतमिति बोध्यम् । ) तदपि तथापि, दाशरथेः इदं परशुरामबलरामयोः व्युदासार्थ, रामस्य, कलत्रं भार्या सीतानाम्नीं, "कलत्रं भूभुजां दुर्गस्थानेऽपि श्रोणिभार्ययोः । " इति विश्वलोचने, जहार चौर्येण रामाद्वियुज्य स्वगृहं नीतवान्, यत्प्रत्यानयनाय रामस्य लंकां प्रति अयनं गमनं अभूत्, यदधिकृत्य भगवता वाल्मीकिना श्रीरामायणाख्यं आदिकाव्यं प्रणीतम् ॥ ' रामभद्रस्य ' इति पाठे रामभद्रपदं " भद्रश्चासौ रामश्च रामभद्र: । ' शुभमंगलयोर्भद्रं स्याद्रम्यश्रेष्ठयोस्त्रिषु ।' इति रत्न
,
८६१ यातुधानस्य ( का ) । रामभद्रस्य ( गो. का )
३२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com