SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३२४ दामोदरगुप्तविरचितं का गणना विषयवशे पुंसि वराके, वराङ्गना स्पृहया । व्याजेन वीक्षमाणा ध्यानधियां स्पृशति सज्ज्ञानम् ॥ ८५८ ॥ प्रयासजप्रसादलभ्यं इति भावेन परकीयासुरतस्य दुर्लभत्वं उक्तं, तेन च प्राप्तदुर्लभार्थस्य पुरुषस्य धन्यत्वं ध्वनितम् ॥ स्वैरिणी-यद्यपि स्ववर्णे रताः स्वैरिण्यः, असवर्णेऽपि रताः कामिन्यः, तत्राप्यतिचंचला: पुंश्चल्यः इति भेदः, पुराणेषु च " पतिव्रता चैकपत्नी, द्वितीये कुलटा स्मृता । तृतीये वृषली ज्ञेया, चतुर्थे पुंश्चली स्मृता ॥ वेश्या च पंचमे षष्ठे, युंगी च सप्तमेऽष्टमे । तत ऊर्च महावेश्या साऽस्पृश्या सर्वजातिषु ॥" (ब्रह्मवैवर्तपुराणे) इति तासां भेदाः कृताः, महाभारते च स्वैरिणी चतुःपुरुषगामिनी इति, तदुक्तं तत्र आदिपर्वणि कुंतीवाक्ये-"नातश्चतुर्थ प्रसवमापत्स्वपि वदंत्युत । अतः परं स्वैरिणी स्याद्वंधकी पंचमे भवेत् ॥ " (१२३१७७ ) इति, (अतः परं चतुर्थेन संगमात् ), तथापि साहित्ये 'स्वेन स्वतंत्रतया, ईरितुं गन्तुं शीलमस्या:' इति स्वैरिणी व्यभिचारिणीत्यर्थे प्रयुज्यते । तथा च तद्भेदादिकं नारदस्मतौ-"परपूर्वाः स्त्रियस्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां, स्वैरिणी तु चतुर्विधा । (१२।४५)'स्त्री प्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामाद्या संश्रयेदन्यं प्रथमा स्वैरिणी तु सा || मते भर्तरि संप्राप्तान्देवरादीनपास्य या । उपगच्छेत्परं कामात् सा द्वितीया प्रकीर्तिता ॥ प्राप्ता देशाद्धनक्रीता क्षुप्तिपासातुरा च या । तवाहमित्युपगता सा तृतीया प्रकीर्तिता ॥ देशधर्मानपेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै अन्त्या सा स्वैरिणी स्मृता ॥..। पूर्वापूर्वा जघन्याऽऽसां श्रेयसी तूत्तरोत्तरा ॥ " ( १२ । ४९-५३ ) इति ॥ ८५७ ॥ कैमुतिकन्यायेन वैषयिकाणां पुरुषाणां सुंदरीभिः मोहाभिभवमाह केति । यदि, वराङ्गना उत्तमस्त्री सुगात्री, व्याजेन येन केनापि मिषेण, स्पृहया समागमतृष्णया, वीक्षमाणा पश्यंती, ध्यानधियां-धारितस्य वस्तुविशेषस्य विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययप्रवाहः ध्यानं, तद्रूपा धीः बुद्धिः येषां तेषां मुनीनां इत्यर्थः, सत् श्रेष्ठं ज्ञानं ध्येयविषयकं, स्पृशति येन तत् ध्यानं विच्छिन्नं भवति; तर्हि विषयवशे भोग्यवस्तुजातापहृतमनसि, अत एव वराके दीने, पुंसि मनुष्ये, का गणना तादृशस्य ज्ञानभ्रंशः स्यादिति किमु वाच्यं इत्यर्थः । काव्यार्थापत्तिरलंकारः “कैमुत्येनार्थसिद्धिश्चेत्काव्यापत्तिरिष्यते ।" इति (साहित्यसारे ८।२६१) लक्षणात् ॥ ८५८ ॥ ८५८ विषयरसे (प. स्तं) स्पृशति मज्जानां ( स्तं)। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy