________________
कुट्टनीमतम् ।
परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य । वेश्यारचितविलासाः कथिताः पुरतः पुराणतुणतुल्याः ॥८५६॥ उपनयति रतिमहोत्सवमाराधितदेवताविशेषाणाम् ।
वचनमपि प्रेमाई स्वैरिण्याः श्रवणमेति पुण्यवताम् ।। ८५७ ॥ अधन्याः इति सूचितं, पूर्वोक्तानां च तादृशेभ्यो व्यतिरेकः व्यंजितः ॥ अत्र तादृशीनां वाचां अप्रशस्तत्वेऽपि तच्छ्रवणार्हाणां धन्यत्वकथनरूपविरोधद्वारा वैलक्षण्यप्रति. पादनेन परकीयारतिप्रशंसैव ध्वनिता ॥ ८५५ ॥ एवं स्वीयारत्या: परकीयारत्याः उत्कर्षमुक्त्वा , वेश्यारत्या अपि तं त्रिभिराह परेत्यादिभिः । परतरुण्या परकीययुवत्या सद्भावस्नेहार्पित:-शोभन: निष्कपटः अकृत्रिमः भावः मनोभावः यत्र स सद्भावः, तादृशः स्नेहः पूर्व (४६६ आ. टी.) उक्तलक्षणः, तेन, यद्वा सद्भावः स्नेहात्पूर्वभूतः मनोभावः सामान्येन पक्षपातरूपः, स्नेहश्च ताभ्यां, अर्पित: निःक्षिप्तः य: . नयनभाग: नेत्रैकदेश: कटाक्षः इति यावत्, तेन दृष्टस्य स्निह्यत्कटाक्षवीक्षितस्य नरत्य
पुरतः अग्रे, वेश्यया सामान्यनायिकया, रचिताः प्रादुर्भाविताः, अनेन तद्विलासानां प्रयत्नपूर्वक प्रयुक्तत्वं कृत्रिमत्वं च धोतितं; विलासाः भ्रूनेत्रादीनां ललिता व्यापारा:, पुराणतृणतुल्याः जीर्णतृणसदृशाः नि:साराः ] दुर्बला हीना इत्यर्थः, [कथिताः, शृंगाररसविवेकिभिः तेषां केवलं धनलोभालंबनेन कृत्रिमप्रेमप्रभवत्वात् सगुणनिर्गुणसाधारणत्वाच्च, इति भावः। उपमा अलंकारः, तया च वेश्याविलासानां नीरसत्वं अनाहादकत्वं च सूचितं, तेन च परकीयाविलासस्य व्यतिरेको ध्वनितः ॥ ८५६ ॥ परदाररतिः पुण्यैर्विना नोपलभ्यते इत्याह उपेति । सा इत्यध्याहार्य परतरुणी इत्यर्थः, आराधितदेवताविशेषाणां मंत्रजपपूजाहोमाद्यनुष्ठानेन प्राप्तदेवताविशेषप्रसादानां पुरुषाणां, कर्मणः शेषत्वविवक्षया षष्ठी, नीधातोः द्विकर्मकत्वात् ; तादृशान् पुरुषान् इत्यर्थः । (प्रकृते ता देवताश्च मन्मथः काल्यादिदशमहाविद्यानां च रूपविशेषाः; ) रतिमहोत्सवं-"उत्सूते हर्षमित्येष उत्सवः परिकीर्तितः ।" इति भावप्रकाशे, महांश्चासौ उत्सवश्च महोत्सवः, रतिः सुरतं तदेव तदाख्यो वा महोत्सवः रतिमहोत्सवः तं, महा. नंदजनकं सुरतं इत्यर्थः, उपनयति प्रापयति । अपिः समुच्चये चार्थकः, स्वैरिण्याः कुलटायाः, प्रेमाई स्निग्धं, वचनं उक्तिः, पुण्यवतां अर्जितधर्मकृत्यफलानां, श्रवणं एति कर्णगोचरं भवति॥ परकीयाप्रीतिवचनश्रवणं पुण्यफलं, रतिफलं तु तदधिकदेवताविशेषाराधन
८५६ तरुणीसंभार (गो. का)। नयनभंगि (प. स्तं)। वश्या (प)। तृणकल्पाः (गो. का) वचनमतिप्रेमाद्रं ()
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com