________________
कुट्टनीमतम् ।
३२१
प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् । अस्मासु दृशं मनां प्रेमस्निग्धामनुद्धरता ॥ ८५३ ॥ परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।
कुकलासतुल्यरागा भवन्ति युष्मद्विधा एव ।' ८५४ ॥ चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः॥” (९।२३८) इति । (सर्वेति पतिताः इत्यर्थः, दीना: इत्यत्र स्त्रीपुंसयोः एकशेषः, दीनाः पुंसश्च दीनाः स्त्रियश्चेति ।) ॥ ८५२ ॥ पंचकेन वर्णितायाः दुर्दशायाः कारणं तस्याः लोके पुंश्चलीत्वप्रकाशः, तत्र च कामुकस्यैव अविमृश्यकारिता प्रमादो वा निमित्तं इति तमेव उपालभते प्रकटीकृतेति । मम गृहस्य उपान्तं परिसरभागं, क्षणमात्रमपि अमुञ्चता मदर्शनसमागमाद्याशया तत्रैव दीर्घकालं परिभ्रमता, अपि च तत्र अन्यत्र च मयि त्वदृष्टिपथं पतितायां सत्यां, अस्मासु इति स्नेहगर्विततया बहुवचनं मयि इत्यर्थः, ममां लग्नां खचितां, प्रेमस्निग्धां प्रेम्णा स्नेहेन स्निग्धां आर्द्रा सरसां, दृशं दृष्टिं, अनुद्धरता तत: अन्यत्र न पातयता, अन्यासां मध्ये मामेव अत्यासंगात् भृशं मद्विषयानुरक्तप्रभया दृशा सततं सादरं सानुरागाकूतं वीक्षमाणेन इत्यर्थः, अनेन स्निग्धा दृष्टिः (पूर्व ५०७ आ. टी. उक्तलक्षणा) लक्षिता; एवंविधाचारवता त्वयैव अहं 'गुप्ता' प्रकटीकृता प्रकाशमानीता, पुंश्चलीत्वेन इति शेषः। तव तादृशनिबंधाभावे मम कुलटात्वं सुप्रच्छन्नमेव स्थितं स्यात् इति भावः । यतः-"आचारः कुलमाख्याति, वपुराख्याति भोजनम् । वचनं श्रुतमाख्याति, स्नेहमाख्याति लोचनम् ॥” इति सहृदयानामनुभवः ॥ तद्गहोपान्तपरिभ्रमणसततस्निग्धावलोकनलिंगाभ्यां तस्य कामुकत्वं तस्याः च तत्पात्रत्वं जनैः अनुमितं इति अनुमानालंकारः ॥ ८५३ ॥ तस्य चपलरागत्वेन स्नेहापकर्षमालक्ष्य उपालभते परेति । युष्मद्विधाः, युष्मदिति सोल्लुण्ठोक्तौ बहुवचनं, युष्मच्छब्देन तादृशानां बहुत्वाद्वा बहुवचनं, त्वत्प्रकारा इत्यर्थः, सुंदरदुर्जनाः इति भावः । एवेत्यनेन अन्यविधानां स्वकीयामात्ररतानां व्यवच्छेदः । परेषां अन्येषां पुरुषाणां, गृहाणां लक्षणया गृहसुखानां इत्यर्थः, यद्वा " न गृहं गृहमित्याहुमुहिणी गृहमुच्यते ।" इति न्यायात् तेषां दाराणां, शीलच्यावनेन य: विनाश: सर्वस्वनाशः, तस्मिन् पिशुनाः रहसि अनुचितार्थबोधकाः भेदनशीला: खलाः दुर्जनाः, परगृहोपप्लावकाः इति समग्रस्यार्थः, तथा सुभगंमन्याः सौन्दर्यवत्त्वात् परकीयतरुणीमोहोत्पादनेन सुभगं
८५३ प्रकटीकृतास्त्वयैवं ( गो. का) [ अरमणीयार्थः पाठः ] । अस्मान्सुदृशां मध्ये ( का ) [ अपार्थकः पाठः ] ८५४ °भिरूप (प. स्तं. का)। तुल्यभागा (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com