________________
कुट्टनीमतम् ।
यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् । ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥ ८४९ ॥ धिग्वादान् परिजनतः सहमानाऽनुत्तरा ह्यधोवदना ।
तिष्ठामि निरभिमाना निजनिर्मितदोषदौर्बल्यात् ॥ ८५०॥ परपुरुषाणां वा समीपे लजया विनयेन वा मुखादर्शनाय तस्य वस्त्रांचलेन पिधानं, यत् गुर्जरभाषायां 'लाज काढवी' इत्युच्यते, तदेव विनय: नम्रता नीतिः वा, " विन. यस्तु नतौ नीतौ शिक्षायां विनयो द्वयोः ।" इति विश्वलोचने, तत्र रतिः प्रीतिः, अनेन तादृशप्रसंगेषु सर्वदा मुखावगुण्ठनं विनयप्रदर्शनार्थ कृतं इति भावः; तथैव स्वैरालाप: मन्दस्वरेण संभाषणं; तथैव मंदसंचार: अनुद्धततया गमनं; एतानि सर्वाणि शीलद्योतकानि, तानि पूर्व मया अनुष्ठितानि, लोके प्रशंसितानि च; तान्येव अधुना कृतानि अपि, मम पापायाः व्यभिचारेण दुश्चरितप्रकाशेन च हताया:; तत्त्वज्ञाः परेंगितज्ञा: लक्षणान्यवेक्ष्य अनुमानपराः, आवयो: लोकशास्त्रविरुद्धः अनुचित: संबंध: प्रकृतं तत्त्वं तत् जानंति ते; करपिहितमुखाः करेण मुखमावृत्य इत्यर्थः, तच्च हास्यसंगोपनार्थ, हसन्ति; कृतं क्रियमाणं च अवगुंठनादिकं लोकप्रतारणायैव इति निश्चिन्वानाः इति भावः।] अवगुंठनादीनां केवलं प्रतारणायैव विधानात् हासो युक्त एव ।' [इति टिप्पणी ॥ ८४८ ॥ प्रयत्नेन गोप्यमानस्यापि कुलटात्वस्य प्रसिद्धिमुक्का तजन्यां शिष्टगर्हामाह यासामिति । सख्यं मैत्री। समवयःकुलस्त्रीणां समवयस्काः याः सत्कुलोत्पन्नाः स्त्रियः तासां । तादृशीः, तन्नियन्तारः तासां मातृपत्यादयो गुरुजनाः, उक्तं च-" अस्वतंत्रा: स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सत्यः संस्थाप्या: आत्मनो वशे ॥" (मनु० ९/२) इति; ताः पूर्वसखीः, मत्त: मत्सख्यात् इत्यर्थः, वारयति निषेधयंति, तत्र हेतु:-कुसंग इति, यथाहं दुराचारा तथा मम संगत्या ता अपि “ संसर्गजा दोषगुणा भवन्ति।" इति न्यायेन, तथाविधा भवेयुरिति भीत्या इति भावः । " असदाचारैरसंसर्गः।" (धर्मबिंदौ १।३२)इति, तथा "सूक्ष्मेभ्योऽपि प्रसंगेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥" (मनु. ९।५) इति हि उपदेशः । अत्र इतिशब्द: हेतौ । बालसखीभिरपि संप्रति त्यक्ता इत्यहो दुःखं इत्यभिप्राय: । 'कुसंगति' इति पाठे 'ता' इति 'कुसंगति' इति च कर्मद्वित्वं चिन्त्यम् ॥ ८४९ ॥ स्वमाननाशरूपां दोषप्राप्तिमाह धिगिति । परिजनतः परितो ये जना: संबंधिन: सेवकाश्च
८४९ कुसंगतिं त० ( गो. का)। ८५० माना मुहुरथाप्यधो (गो. का)। स्व. निर्मित (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com