________________
३१८
दामोदरगुप्तविरचितं न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् । दृष्टादृष्टभ्रष्टा क यामि किं वा करोमि दुर्जाता ॥ ८४७ ॥ अवगुण्ठनविनयरति स्वैरालापं च मन्दसञ्चारम् ।
सम्प्रति मम पापायाः करपिहितमुखा हसन्ति तत्त्वज्ञाः ॥८४८॥ प्रकटयति आत्मेति । स्वगृहात् , प्रीत्या मयैव साधितं, स्वादु रसनादितोषजनकं, भोजनं खाद्यादिकं चतुर्विधं, प्रच्छाद्य वस्त्राञ्चलादिना आवृत्य, आनीतं, एतेन हार्द प्रेम ध्वन्यते, विजने एकान्ते, स्वकरेण मया दत्तं, एतादृशगुणविशिष्टमपि, भवता निर्वृतहृदयेन] निर्वृतं सुखितं [ हृदयं यस्य तादृशेन सता, ] न अशितं न भुक्तं, अपि तु शीघ्रं अनास्वादनपूर्वकं भक्षितम् । [ इदं मे अनुरागिण्या: अपरं शोकस्थानं इति भावः ॥इयं गुप्तचर्या ॥ ८४६ ॥ कुपथगमनेन उभयमार्गभ्रष्टतया आत्मानं शोचति नेति । मया, चरित्ररक्षा शीलपालनं, न कृता, त्वद्भोगेन विषयानंदसमुल्लासप्राप्त्या. शया उभयलोकसाधनं पातिव्रत्यं त्यक्तं इति भावः । तथापि इष्टसिद्धिर्न जाता इत्याह न चेति । त्वच्छरीरं तव सौंदर्यादिगुणवान् भोगाश्रयो देहः, अपयंत्रं अप्रतिबन्धं निरर्गलतया वा, न भुक्तं यथेष्टालिंगनचुंबनादिभिः न भोगविषयीकृतं, तदर्थ पर्याप्तस्य कालस्यानुपलब्धेरिति भावः । 'मच्छरीरं । इति पाठे कपोलकुचादिभोग्यस्थानाअयं त्वया न भुक्तं त्वया प्रभूतचुंबनमर्दनादिभिः न मे कामशान्तिर्जनिता, चौर्यसुरतस्य रभसेन निर्वय॑मानत्वात्, इति भावः । उभयपाठेऽपि स्वमनोरथस्य अपूर्तिः द्योतिता। फलितमाह दृष्टेति । इत्यं, दृष्टात् दृष्टफलात् विषयानन्दात् , अदृष्टात् पुण्यात् च, भ्रष्टा पातिव्रत्यभंगपापेन, एवं उभयतो नष्टा इत्यर्थः, अतः दुर्जाता दुष्टं अश्लाध्यं जातं जन्म यस्याः सा दुर्भाग्या, क यामि किं वा करोमि इति दैन्यसूचिका स्वभावोक्तिः । अत्र दैन्याख्यो व्यभिचारिभाष:, स च "दुःखादिजनिता चित्तवृत्तिर्दैन्यं स्वदोषकृत्।" (साहित्यसारे ४११४६) इति लक्षितः ॥ ८४७ ॥ इतः पंचकेन लोके प्रतिष्ठाभंगरूपां अनुशोच्या दशां स्वानुभूतां ' लक्षिता परकीया। सा संवर्णयति, तेन च परपुरुषसेवनं स्त्रीणां ऐहिकानिष्टजनकं सत्त्याज्यं इति परमार्थ द्योतयति । पारलौकिकानिष्टं शास्त्रदृष्टं प्रसिद्धमेवेति नोक्तम् । पंचके च प्रतिवृत्तं " अवज्ञादिसमुत्पन्ना वृत्ति. निर्वेद उल्यते ।" (४।१३९) इति साहित्यसारे लक्षितः निर्वेदाख्यो व्यभिचारिभावः ॥ अवगुंठनेति । कुलवधूत्वात् तासां नीतिमवलंब्य, मम, अवगुंठनं संवृतमुखत्वं गुरूणां
८४७ शरीररक्षा (गो)। मच्छरीर (गो) मच्छरीरपर्यन्तम् (का) ८४८ रति (प. स्तं) ननयविरतिं (का)। स्वेरालपनं सुमन्द० (प. स्तं)। भूमिज्ञाः (प. स्तं) Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com