SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं नयतीवान्तर्विलयं संग्रसमानेव सर्वगात्राणि । संश्लिष्यतेऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥ ८४३ ॥ (नायिकावचनमहाकुलकम्) नंदभाणे १३० ) इति । 'तं न यामि' इति पाठे नेति भिन्नपदं निषेधार्थकम् ॥ अनया कामावेगवर्धकं वामत्वं उक्तम् । तथाहि क्षेमेन्द्र:-" कामं नियमवामस्य स्वाधीनानभिलाषिणः । प्रायेण वर्धते जन्तोनिषेधेनाधिकादरः ॥” ( बोधिसत्त्वा० १२।२०) इति । तस्यैव च अयं छायाश्लोक:-" नननेति समुत्कंपिरसनांशुककर्षणे । गच्छामि मुञ्चमुञ्चेति क्वणन्ती कस्य नेप्सिता ॥" ( बोधि० ८९।१३६ ) इति ॥ ८४२ ॥ कामशास्त्रकारैः सपदि सर्वागतृप्तिकरत्वात् संभोगारंभे प्रयोज्यत्वेन प्रतिपादितं आलिंगनम् । तच्च अत्र सर्वविधसुरतोपलक्षणं परकीयायाः प्रशस्यते नयतीति । परकीयायाः आलिंगनस्य अनुरागातिशयेन अतिदृढत्वात्, कामुकं, अन्तः स्वमध्ये, विलयं एकरसत्वं नयती इव अंतर्भावयन्तीव, इव उत्प्रेक्षायां, अतः आलिंगनं 'लयः' इत्यपि अभिधीयते, यथोक्तं-" विनाशाश्लेषयोर्लयः" इति विश्वलोचने । तथैव सर्व. गात्राणि शरीरस्य सर्वान् अवयवान् , असमाना अतिदृढतया गृह्णती इव, घटकेन वर्णितप्रकारा अन्ययोषा परदारा:, संश्लिष्यते आलिंग्यते, ] तस्य संश्लेषस्य पुरतः [ अग्रे, तुलने कृते, ] अमृतं [ सुधा ], अपि, तिक्तं निम्बतुल्यस्वादं [ 'कडवू ' इति भाषायां, भाति इति शेषः । ] अमृतादपि मधुरतरः [ परकीयायाः] संश्लेषः इत्यर्थः । [ उत्प्रेक्षाव्यतिरेकालंकारयोः संसृष्टिः ॥ 'यत् श्लिष्यते न योषित्' इति पाठे यदि एतादृशी योषित् अर्थात् परकीया न आलिंग्यते तदा तादृशस्य अप्राप्ता लेषस्य पुरु. षस्य पुरः प्राशनाय धृतं अमृतमपि तस्य तिक्तं भाति, चित्तवैधुर्यात् तदपि न गृह्णाति इति भावः ॥ परकीयाचेष्टितमित्थं वर्णितं पंचायुधप्रपंचभाणे-“गच्छामीति वदन्त्य एव चरणं यच्छन्त्यलीढं (?) पुरः, संस्पर्शादपि पूर्वमस्फुटमलंवादान्मुहुः कुर्वते । संकेते मलयानिलेऽपि चलिते तिष्ठति नैव क्षणं, को धन्यो विरतिं प्रपश्यति रतेरन्याङ्गनानां भुवि ॥” इति । (संकेते संकेतस्थले । विरतिं अन्तम् । अनेन परकीयासुरतस्य कृच्छ्रत्वं, तत्संपूर्णतायां च कामुकस्य धन्यत्वं सूचितम् । ) वसन्ततिलकभाणे च" दिगन्तान् पश्यन्ती दिशति न मुखे चक्षुरमतं, न विश्रब्धं किंञ्चित्कथयति नवाऽऽकर्णयति च । रतारंभे भूयो जिगमिषति साशाऽपि सुरते, तथाऽप्येषा भावस्तरलयति ८४३ ददतीवा० (प. स्तं)। प्रसमाने वार्धसर्व (का) असमाना सर्वगात्राणि (गो)। यत् श्लिभ्यते न योषित् (प. स्तं) [अत्र का पूर्वार्षपाठो दुष्टः ] । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy