________________
कुट्टनीमतम् ।
दृष्टं द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।
इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥। ८३५ ।। साऽपि च्छिन्नाच्छोटन गृहीतमुक्ता विलोकयन्त्याशाः । विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्यम् ॥ ८३६ ॥
३११
1
"
सेवां कुरुते इति भाव: । कुटुम्बं पुत्रापत्यादिपोष्यवर्ग, त्यजति, स्वकुटुंबजनं विहाय चतस्यै, सर्वस्वं सर्व निःशेषं स्वं धनं, इदं वस्तुसामान्योपलक्षणं, ददाति अर्पयति तत्सात्कुरुते । यावत् अवधारणे कालस्य, परयुवतिः परस्य अन्यस्य युवतिः यौवनोद्धता स्त्री, प्रोज्झितावरणा अंगदानाय त्यक्तपरिधाना, विवृतजघना इति भाव:, पुरतः अग्रे सम्मुखं, न भवति । यत: "यूनां तु परदाराणामभिप्रेतः समागम: । " ( शिवपुराणे धर्मसंहितायां १० । १२० ) इति । एतदनुकारी क्षेमेन्द्रस्यायं श्लोक:-" तावत्प्राणपणेनापि चपलाः सकुतूहला: । परस्त्रियं प्रार्थयन्ति न यावद्वस्त्रमुज्झति ॥ " ( बोधिसत्त्वा ० ८९ । १३५ ) इति || ८३४ ॥ निर्वृत्ते प्राथमिके समागमे कामुकस्य वृत्तमाह दृष्टमिति । विहितविधेयः कृतकृत्यः संप्राप्तपरकीयारतिसुखः इति भाव:, सन्, तत: संकेतस्थानात्, तूर्ण शीघ्रं याति अपगच्छति, कथं, इति मनसि कृत्वा एवं विचार्य । तत्प्रकारं निरूपयति दृष्टमित्यादि । यत्, द्रष्टव्यं दर्शनीयं “ दर्शनीयं तदानन्दसान्द्रो यत्र मनोलय: । ” इति यादवः, तत् दृष्टं द्रष्टव्यावधिदर्शनेन जनुः सफलतां नीतं इति भावः; अतः पूर्वजातं कौतुकं कुतूहलं " रम्यदृष्टौ चापलं तु कुतूहलमुदीरितम् । " इति लक्षितं व्यपयातं निर्वृतिं प्राप्तं शान्तं इत्यर्थ: । कुतः, अन्तः हृदये, विदितं ज्ञातं अनुभूतं इत्यर्थः, तत् कुतूहलम् ॥ अत्रापि क्षेमेन्द्रस्य छायाश्लोक:-" दृष्ट्वा विवसनां वृत्तकर्तव्य: सर्वथा जन: । भुजपंजरनिर्मुक्तः शुकवृत्त्या पलायते || ” ( बोधिसत्त्वा ० ८९ | १३७ ) इति ॥ ८३५ ॥ तथैव नवस्वैरिण्याः चर्यामाह साऽपीति । साऽपि प्रकृता इत्यर्थः, छिन्ना पुंश्चली, "छिन्नाऽमृतायां पुंश्चल्यां, छिन्नं भिन्नेऽभिधेयवत् । " इति विश्वलोचने, परानुरागेण पत्युः भिन्नतां गता इति छिन्ना, एतच्छब्दादेव प्राकृते ' छिण्णालिआ ' इति भाषायां ' छिनाल ' इति तदर्थका: शब्दा उद्भूता: छोटनं छोटिका चुटकी, (१) अङ्गुष्ठमध्यमाभ्यां ध्वनिविशेषोत्पादनं, ' चपटी वगाडवी' इति गुर्जर भाषायां प्रसिद्धा, सा च प्रायः शीघ्रकर्तव्यतासूचनाय संज्ञादानाय अनुमोदनाय वा प्रयुज्यते । लक्षणया च (२) तदुत्थध्वनिः, (३) तदुपलक्ष्य: अत्यल्पः कालश्च इति अर्थ -
च
८३५ विदितमन्तम् (स्तं ) ८३६ सापि च्छन्ना० ( प. स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com