________________
३०४
दामोदरगुप्तविरचितं
अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । ते शोकल्लेशरुजां केवलमुपयान्ति पात्रता मन्दाः ॥ ८२५ ॥
विदूषकः-कीदृशः सः । राजा–यस्मिन्विकल्पघटनादिकलंकमुक्तः आत्मनः सरलत्वमेति भावः । एकैकस्य प्रसरद्रसप्रवाहः शृंगारवर्धितमनोभवदत्तसारः ॥ (३।१०)। विदूषकः-कथमिव स लक्ष्यते । राजा-ययोः स्वभावप्रसरत्सलोलदृष्टिपर्यंतलुंठितमनसोः परस्परेण । वर्धमानमन्मथवितीर्णरसप्रसारस्तयोः प्रकाशते लघुरिव चित्तभावः ।। (३।११)। अपि च-अंतर्निविष्टमनोविभ्रमडंबरो यः स भण्यते मदनमंडनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तजानीम; सुबहुलं मदनेन्द्रजालम् ॥” (३।१२।) इति । (यस्मिन् प्रेम्णि, भाव: चित्तवृत्तिः, सार: बलम् । सलोलाः सतृष्णा: चंचला वा, दृष्टिपर्यताः नेत्रप्रान्तभागाः कटाक्षा इति यावत् , लुंठितं चोरितं, तेन मनसोः एकरसता व्यज्यते, लघुः मनोज्ञः। विभ्रम: विलास:, डंबर: अवस्थाविशेष: गर्वः।) स्वर्ग:"ऋज्यते स्थीयते अस्मिन् इति अर्ग: स्थानम् । 'शोभन: अर्गः स्वर्गः प्रादिसमास:" इति अमरटीकासर्वस्वे; अतिशयपुण्यफलं सुखैकमयं देवानां निवासस्थानं, लक्षणया तादृशं सर्व, “ मनःप्रीतिकर: स्वर्गों, नरकस्तद्विपर्ययः ।" इत्युक्तेः; कालिदासश्च विकमोर्वशीये-" राजा-वयस्य, अनिर्देश्यसुखं स्वर्गः ।" (३।१८) इति, तादृशं च सुखं निरतिशया स्त्रीपुंसयोः प्रीतिरेव, या 'परानुरक्तिः' 'अन्योन्यं हृदयभावबन्धनं । ' ऐक्यं हृदययोः' इति च भण्यते । कथितः निगदितः, परलोकचिन्तकैः कः परः श्रेष्ठः लोकः भुवनं इति विचार्य तद्विषयकं निर्णयं कुर्वद्भिः शास्त्रविद्भिः स्वर्गतत्त्वनिर्णायकैः इत्यर्थः, चिंतायाः निर्णयफलकत्वात् । तस्याः निरतिशयप्रीत्याः अर्थात् स्वर्गस्य, जन्मलाभः उद्भवः, हृदयेन अंत:करणेन आप्तुं इष्ट: हृदयंगम: य: पुरुषः पुमान् तेन संयोगात् समागमात् , भवतीति शेषः ॥ ८२४॥ एवं अननुरक्ताभ्यः स्त्रीभ्यः ये सुखाभिलाषिणः, तेषां स्वमौर्येण प्राप्तव्यानि विपरीतफलानि अप्रस्तुतवृत्तेन उपन्यतस्यति अतटेति ] ' अतटस्थं अस्थिरं उदासीनं च। [इति टिप्पणी । न तटे नदीतीररूपभूभागे तिष्ठति वर्तते इति अतटस्यं जलप्रवाहस्य उपरि वर्तमानं अत एव दुर्ग्राह्यं इत्यर्थः, यत् स्वादु मिष्टं, अत एव प्रेप्सितं यत् फलं, तस्य ग्रहणाय प्रात्य, व्यवसाये प्रयत्ने, निश्चयः इतिकर्तव्यताबुद्धिः येषां पुरुषाणां, ते, मंदाः जडबुद्धयः मूर्खाः, शोकस्य धनबंधुनाशादिज: चित्तखेदभर: शोकः तस्य, स्वेष्टफलाप्राप्तेः; तथा क्लेशस्य कर्मानुष्ठानजनिताया: पीडाया:, मिथ्याप्रयासात् ; रुजः व्याधे: पतनादिना, उपतापस्य वा, पात्रतां यांति भाजनं भवंति ॥ अप्रस्तुतप्रशंसालंकारः । अप्रस्तुतेन अतटस्थ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com