________________
कुट्टनीमतम् ।
किं प्रतिकूला ग्रहगतिरुत परिणतमात्मदुश्चरितम् । स्वानुष्ठानव्यसनं किं वा तस्यात्मयोनिहतकस्य ॥। ८२६ ॥
३०५
स्वादुफलेन प्रकृते अनभिमुखचित्तवृत्तिः स्त्री लक्ष्यते, सा भोगाय मिष्टा इष्टा चापि उक्तफलवत् विपरीतदिशि वर्तमाना विमुखी प्रेमरहिता; तादृश्याः ग्रहणाय विरक्ताचित्तग्रहणाय तद्भोगेन च आनंदलाभाय ये यत्नं कुर्वेति ते मूर्खाः केवलं शोकादिकं प्राप्नुवंति इति प्रस्तुतार्थ: ॥ आर्याद्वयस्य अयं अभिप्रायः - कुपतित्वात् भर्तरि ते प्रीति: नास्ति, तेन तव सुखलेशोऽपि नास्ति ; तादृश्याः त्वत्तः तस्य शोकादिप्राप्तिरेव, दूरे उभयोः सुखवार्ता इति । त्वया तु तस्मात् सुखप्रात्यै तेन संयोक्तव्यं यः त्वयि स्निह्यति इति ॥ ८२५ ॥ एवं उपोद्वातं कृत्वा त्रिभिः विशेषकेण तस्यां अनुरक्ते कस्मिंश्चित् कामुके तन्मनस आवर्जनेन संयोगोत्कंठां जनयितुं तदीयविरहावस्थां दूती संवर्णयति । तत्र आदौ इयन्तं कालं तयोः उभयोः असमागमे दृष्टकारणानुपलंभात् अदृष्टकारणानि वितर्कयति किमिति । किमिति प्रभे, त्वद्दर्शनापहृतचेतसः तरुणस्य, ग्रहगतिः–जन्मकालिकस्वस्थानबलात् शुभाशुभफलदातृत्वेन प्रसिद्धा: सूर्यादयो नव ग्रहाः, तेषां गति: चारः, सा, प्रतिकुला अनिष्टजननी, त्वत्संयोगरूपाभीष्टस्य असंपादकत्वात् ; उतेति वितर्के, यद्वा इत्यर्थः ; आत्मनः स्वस्य तस्य, दुश्चरितं अनिष्टफलदातृ पापकर्म, इदानीं परिणतं पक्कं भोग्यं जातमित्यर्थः किमिति प्रश्ने, वेति विकल्पे, तस्य परोक्षस्य ललाटलिपिकृत्त्वेन प्रसिद्धस्य वा, आत्मयोनिहतकस्य दग्धविधेः - आत्मा स्वयं योनिः कारणं यस्य सः आत्मयोनिः आत्मभूः ब्रह्मा, स चासौ हतकः विप्रियकारित्वात् दुष्टः, यद्वा इतक इति निर्वेदानुसंधानार्थकः, स आत्मयोनिहतकः, तस्य यत् स्वानुष्ठानं स्वकार्य अनुचितघटनात्मक्क्रीडाकरणं, यथोक्तं- “ शशिनि खलु कलंक:, कण्टकं पद्मजाले, युवतिकुचनिपातः, पक्वता केशजाले । जलधिजलमपेयं, पंडिते निर्धनत्वं, वयसि धनविवेको, निर्विवेको विधाता ॥” इति, ( निर्विवेक: अनुचितकारी इत्यर्थ: । ), विपर्ययेण च - " समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः । " ( रघु० ६ ) इति, नागानंदे च प्रथमांके तापसोक्ति:-" चिरात्खलु युक्तकारी विधिः स्यात्, यदि युगलमिदमन्योन्यरूपं घटयेत् । ” इति; तत्र कर्मणि, व्यसनं आसक्ति: । अत्र आत्मयोनीतिशब्दशक्त्या कामदेवोऽपि लक्ष्यते, "आत्मयोनिर्विरिंचे स्यादात्मयोनिर्मनोभवे । ” इति विश्वलोचनात् आत्मा मनः योनिः कारणं यस्य इति योगार्थत्वात्, तस्य संकल्पजत्वात्; तस्य स्वकार्य तु विरहिजनतापकत्वं, यथोक्तं केनचित्–“ सततमनंगोऽनंगो न वेत्ति परदेहदाहदुःखमहो । यदयमदयं दहति ८२६ गतमन्यजन्मदु० ( प. स्तं ) । स्त्रानुष्ठानाभ्यसनं ( प. स्तं )
२०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com