SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कुट्टनीमतम्। ३०३ सहसा संकटवर्त्मन्यवितर्कितसंमुखागतेनापि । अभिलषितेनोद्धृष्टकमनल्पशुभकर्मणा लभ्यम् ॥ ८२३ ॥ प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैगदितः। तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंयोगात् ॥ ८२४ ॥ विलंबासहः क्षणः उत्सवः यस्य तत् , यद्वा त्वरित: अल्पः क्षणः अवसरः संभोगादे: यत्र तत्, “कालविशेषेऽवसरे व्यापारे पारतंत्र्ये च । मध्ये तथोत्सवे च क्षणशब्द: कथ्यते षटसु ॥" इत्युक्ते; तादृशं यत् चौर्येण प्रच्छन्नतया प्राप्यं सुरतं निधुवनं चौर्यरतं 'प्रच्छन्नक; तस्य लक्षांशं लक्षसंमितं अपि भागं, न तुलयति न तत्कक्षामारोहति । चौर्यसंभोगरससुखस्य स्वपतिगृहादिसुखात् लक्षगुणाधिकं आनंदजनकत्वं इति भावः ॥ तथाहि उक्तं-" अपथ्यभोगेषु यथाऽऽतुराणां स्पृहा, यथाऽर्थेष्वतिदुर्गतानाम् । परोपतापेषु यथा खलानां, स्त्रीणां तथा चौर्यरतोत्सवेषु ॥” इति । (तत्रतत्र तेषां आनंदाधिक्यबुद्धेः 1) व्यतिरेकालंकारः ॥ ८२२ ॥ तल्लेशस्यापि सुखोत्कर्षतया तस्य पुण्यप्राप्यतामाह सहसेति । ] संकटवर्त्मनि संबाधमार्गे । [ अवितर्कितं अकस्मात् , संमुखं अभिमुखं आगतेन, अपिः चार्थः, अभिलषितेन स्वेष्टेन कामितेन, यत् , सहसा तत्कालं,] उद्धृष्टकं संमर्दः [शरीरसंघर्षः, तत् महापुण्यकर्मणा प्राप्यं 'नाल्पस्य तपस: फलं ' इति भावः, तस्य महानंदजनकत्वात् । कर्मणेति हेतौ तृतीया ॥ उद्धृष्टकमितिशब्देन अन्वर्थनामक: आलिंगनभेदोऽपि प्रतीयते तेन मुद्रालंकारः, " सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः । " इति ( कुवलयानंदे ) तल्लक्षणात् ॥ उद्धृष्टकाख्यं आलिंगनं च-"उत्सवे देवयात्रायां महातिमिरसंकुले । विजने स्थानके वाऽपि गच्छतोश्च परस्परम् ॥ अङ्गाङ्गघर्षणं नातिचिरकालं (तु यद्भवेत् ?) । (तदु)घृष्टकमित्याह वात्स्यायनमहामुनिः ॥ " इति उक्तं रतिरत्नप्रदीपिकायाम् (१४। ७४-७५); तच्च असंजातरत्याः रिरंसासूचकं बोध्यम् ॥ ८२३ ॥ प्रकृतविषयकं पर मार्थ द्वाभ्यां प्राह ] प्रीतिरिति । निरतिशया प्रीतिः किल स्वर्ग: इत्यन्वयः । [किलेति अव्ययं वार्तायाम् । निरतिशया नास्ति अतिशयः आधिक्यं यस्या: सा निरतिशया परां काष्ठामारूढा परिच्छेदांतीता, प्रीतिः प्रेम,-तच्च विवृतं संवादद्वारा राजशेखरेण कर्पूरमंजरीसट्टके (छाया-) “विदूषकः-भोः, किं पुनरेतत्प्रेमप्रेमेति भणंति । राजाअन्योन्यमिलितस्य मिथुनस्य मकरध्वजशासने प्ररूढं प्रणयग्रंथिं प्रेमेति विदग्धा भणंति । ८२३ तेन विशा (?) (प. स्तं)। मनन्य ( गो २. का) । कर्मणां (गो) ८२४ गदिता (का) [अर्थाननुरूपः पाठः]। संभोगात् (प' स्तं) [ग्राम्यः पाठः ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy