SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३०२ दामोदरगुप्तविरचितं दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् । तुङ्गमपि पतितकल्पं स्तनशालिनि तत्पयोधरद्वन्द्वम् || ८२१ ।। पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् । तुलयति न हि लक्षांशं त्वरितक्षणचौर्यसुरतस्य ।। ८२२ ॥ व्यतिरिक्तमन्यं उद्दिश्य प्रेमोदये वा, स्वाभीष्टसंयोगं संपाद्य तारुण्यं सफलतां नेयमिति ॥ ८२० ॥ कुपतिक्रीडां निंदति दुर्भर्त्रिति । अनुदिवसं प्रतिदिनं, दुर्भर्ता कुपतिः, तथात्वं च भर्तुः तस्य ईर्ष्यालुत्वादिना तस्मिन् पत्नीमनस: अलग्नत्वात् वा, तेन हस्ताभ्यां स्तनयोः यत् आस्फालनं आहतिः, अनेन अपहस्तकं नाम ताडनं ( ३७७ आ. टी.) उद्दिष्टं, तेन मलिनीक्रियमाणा विच्छायतां धूसरतां वा नीयमाना शोभा - रमणीयता यस्य तत्, पयोधरद्वंद्वं स्तनयुग्मं, तुंगं उन्नतं वर्धमानतारुण्यात्, अपि, पतितकल्पं प्रसवहृतयौवनायाः वृद्धायाः इव वा यथा पतितं वर्तते तत्तुल्यमेव । अनेन पत्यौ तव रागाभावात् तत्कर्तृकस्तनमर्दनताडनादि पतितवत् अर्थात् धर्मभ्रष्टवत् महापातकिवत् शोच्यम् इति सूचितम् । अतः तारुण्यसाफल्याय अपरः मनःप्रियः सेव्यः इति आकूतम् । स्तनाभ्यां शालते शोभते सा स्तनशालिनी, तत्संबुद्धौ हे स्तन - शालिनि प्रशस्तस्तनवति । उन्नतत्वं स्तनयोः गुणः पतितत्वं च दोष:, तदुक्तं - "गुणो दूषण यात दूषणं गुणतां क्वचित् । तथाहि नम्रता दोषः स्तनयोः स्तब्धता गुण: ||" इति, (स्तब्धता कठोरत्वं उन्नतत्वं वा । ) ॥ तथा - " कठिनोन्नता रतरणे स्त्रीणामप्यन्यमर्दिताः । विकंचुका यथा शूरा न पतन्ति पयोधराः ॥ " इति ॥ ८२१ ॥ एतद्दुःखभैषज्यं चौर्यसुरतं प्रशंसति पर्यकेति । पर्यकः शय्या, 'पलंक ' इति प्राकृते, 'पलंग' इति भाषायां, स्वास्तरण: शोभनप्रच्छदपट: । पति: भर्ता, अपि, अनुकूलः चित्तानुवर्ती वशवर्ती स्वेष्टसंपादक: । सदनं गृहं पतिगृहं अत्र, मनोहरं बहुविधपदार्थसमृद्धिमत्तया रम्यम् । इदं सर्वे मिलितमपि त्वरितक्षणं त्वरित: त्वरया संपाद्यमानः क्षण: व्यापार: आलिंगनचुंबनादीनां यत्र तत्, यद्वा त्वरितः " ८२१ क्रियमाणमनु (गो) । स्तनशोभिनि तव पयो ० ( प ) स्तनशा लिनि तव पयो - घर० (स्तं ) ८२२ हरं शयनं ( प. स्तं ) [ पुनरुक्तार्थः पाठः । तुलयन्ति न लक्षांश ( प. स्तं ) । सुखशय्या तांबूलं वितन्धाश्लेषचुंबनादीनि । तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतक्ष्य ॥ ( १३२।२२ ) ( इति शार्ङ्गधरपद्धतौ पाठः । ) पर्यकेष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यचौर्यरतलुब्धाः ॥ इति पंचतंत्रे (91938) 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy