________________
कुट्टनीमतम् ।
३०१
सविवादे परलोके जनापवादे च जगति बहुवादे ।
दैवाधीने प्रणये न विदग्धा हारयन्ति तारुण्यम् ॥ ८२० ॥ चक्षुर्विषयः दृष्टः, स्वगृहे इति शेषः; समुज्ज्वल: स्वभावशोभाप्रकाशात् दीसेः भ्राजमानदेह: सुंदरः इति यावत् , तरुणः युवा। तदा संकेतेन तदागमनं वितळ, यतः "उज्ज्वलवपुषं पुरुषं कामयते स्त्री नरोऽपि तां दृष्ट्वा ।” (१३।१५) इति रतिरहस्योक्तेः, तत्र तस्मिन् विषये तरुणागमनरूपे, जायां स्वभार्या, रटन् आक्रोशन् आक्षारणां कुर्वन् , गृहस्वामी इत्यनेन जडस्य गृहादेः एव स्वामी, न तु तस्या: इति सूचितं, गेही इत्यर्थः, आत्मानं, ] क्षपयति पीडयति [क्षीणं करोति । ईग्रंया प्रतिदिनं भार्यया कलहं कुर्वन् कृशो भवति इति भावः ॥ ८१९ ॥ तादृशीनां अन्यासां सहेतुकाचारप्रदर्शनेन पत्युर्व्यभिचारे प्रोत्साहयति सविवादे इति । परलोकः स्वर्गनरको पुण्यपापफले तस्मिन् , सविवादे अप्रत्यक्षत्वात् अस्तिनास्तिविचारगोचरे संदिग्धे; अस्मिन् जगति लोके च, जनापवादे लोकनिंदायां, बहुवादे कर्णोकपर्णिकया भिन्नप्रकारैः वस्तुस्वरूपे वर्ण्यमाने, अर्थात् सत्येऽपि व्यभिचारनिंदाविषये सा निंदा असूयादिप्रवृत्ता मिथ्या इत्यादिप्रकारेण अन्यैः तस्याः अपलप्यमानतासंभवे सति इत्यपि, लोकप्रवादे असंबद्धे सति इति भावः, दैवाधीने भाग्यायत्ते च, प्रणये पत्या अन्येन वा सौहृदे; च सति, विदग्धाः चतुराः स्त्रियः, परलोकभयादेः पत्युरव्यभिचारेण तारुण्यं यौवनं (पूर्व व्याख्यातं आ. ६१८); न,] हारयन्ति अतिक्रामयन्ति, हृधातोः णिजन्तप्रकृतिक रूपं, स्वाभीष्टान्यसंभोगविरहेण निष्फलं न कुर्वन्ति ॥ अत्रायमभिप्रायः-तारुण्यसाफल्यं स्त्रीपुंसयोः परस्परस्नेहाधीनम् । कुपतित्वात् अन्यस्मिन् जननान्तरसौहृदात् वा स्त्रिय: पतिविषयकः स्नेहः न उद्भवति । तेन तया तारुण्यसाफल्याय व्यभिचरितव्यम् । तत्र द्वौ प्रतिबन्धौ धर्मशास्त्रं लोकनिंदा च । तत्र धर्मशास्त्रं-" व्यभिचारात्तु भर्तुः स्त्री लोके प्राप्नोति निंद्यताम् । सृगालयोनि चाप्नोति पापरोगैश्च पीड्यते ॥” ( मनुस्मृतौ ९।३० ) इत्यादिकम् । लोकनिंदा च ' इयं कुलटा' इत्यादिवचनप्रकारिका प्रसिद्धा एव । एतयोः अयं समाधिः-परलोकास्तिता विवादग्रस्ता, लोकनिंदा च परस्परविरुद्धोक्तिमया प्रकारान्तरसमाधेया वा, अत: भयानावहत्वात् ते अगणनीये । एवं स्थिते, पतिमुद्दिश्य अनुरागविरहे, पति
८२० जनापवादेऽपि (प. स्तं.) बहुचित्ते । (प.) बहिचित्रे ( हि विचित्रे ? )(स्तं)। प्रलये (स्तं. गो २)। संदिग्धे पर''बहुचित्रे । स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥ (इति पंचतंत्रे १११३९ पाठः।)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com