________________
कुटनीमतम् । शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियप्रणाशो वा । स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥ ८१६ ॥ केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः प्राणान् ।
न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ८१७ ॥ किंशब्दः प्रभे, इतिशब्द: हेतौ, कस्मात् हेतोः कुतः इत्यर्थः; तत् वपुः, वंध्यं निष्फलं जन्मनः शरीररचनायाः फलं प्रयोजनं यस्य तत् तथाविधं, विहितं कृतम् । तथाहि विधातृदोषं पुरुषप्रयत्नत: अनुरूपकामुकप्राप्त्या दूरीकुरु इति अभिप्रायः । इयं आर्या" लावण्यद्रविणव्ययो न गणितः, क्लेशो महान् स्वीकृतः, स्वच्छन्दस्य सुखं जनस्य वसतश्चिन्ताज्वरो निर्मितः । एषाऽपि स्वयमेव तुल्यरमणाभावाद्वराकी हता, कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥” इति बौद्धाचार्यधर्मकीर्तिश्लोकस्य च्छायारूप: । प्रकृतार्यायाश्छाया तु रतिरहस्ये-"रूपकलाविज्ञानं शीलं व तव, क चायमीदृशो भर्ता । धिग्दैवमुचितविमुखं तारुण्यं ते विडम्बयति ॥” (१३।१९) इति ॥ ८१५ ॥ तत्पतिमुद्दिश्य वैमनस्यबीज रोपयति शैशवेति । शैशवं बाल्यम् । व्याधिः विशेषेण आधिः विनाशहेतु: व्याधिः रोग: । क्षेत्रियप्रणाश:-क्षेत्रियेण केनापि राजयक्ष्मादिरूपेण असाध्यरोगेण प्रणाश: मरणं; "क्षेत्रियच परक्षेत्रे चिकित्स्यः । " (पा. ५ । २।९२) इति, " परक्षेत्रं जन्मान्तरशरीरं, तत्र चिकित्स्यः इत्यर्थे क्षेत्रियो निपात्यते। क्षेत्रियः कुष्ठव्याधिः, असाध्य इत्यर्थः।” इति भाषावृत्ति:; "अन्यदेहचिकित्सा क्षेत्रियः क्षेत्रजे तृणे । असाध्यरोगे विशेयः, क्षेत्रिय: पारदारिके ॥” इति शाश्वतः । यद्वा पूर्वगतव्याधिशब्दार्थेन पौनरुक्त्यात् क्षेत्रियात् परदाररतात् पारदारिकात् प्रणाशः चारित्रस्य भ्रंशः अस्तु भवतु इत्यर्थः, यद्वा इतिसूचितम् । अनेन दूत्या स्वगूढाभिप्रायः सूचितः ।] 'स्वाकारं अनुरूपं योग्यपतिसमागमं इत्यर्थः' [इति टिप्पणी, तदशुद्धम् । वस्तुतस्तु स्वाकारं शोभन: आकार: अंगोपांगानां निवेशो यत्र तादृशं सौन्दर्ययुक्तं इत्यर्थः, तारुण्यं तरुणीभावः, कुपतिरूपा कदर्थना पीडा तया ग्रस्तं आक्रान्तं व्याप्तं, न माऽस्तु । तुशब्दः पूर्वोक्तभेदे ॥ यौवने कुपतिसमागमात् शैशवादिः मरणं वा वरं इति भावः ॥ केचन कुपतिप्रकारास्तु रतिरहस्ये-" ईर्ष्यालुरकृतवेदी मृदुवेगः शाठ्यवसतिरविदग्धः ।" (.१३।८०) इति ॥८१६॥ तदेव अंकुरयति केलि: इति । ] अभव्यो हीनः [ नीचः ___८१६ क्षेत्रियः (गो. स्तं ) व्याधि येन्द्रियप्र० ( गो २. का)। कदर्थनाप्रहमासः (गो)। अत्र का उत्तरार्ध दुष्टम् । ८१७ °ति सज्जां (शय्यां ?)(प)। चाटवः कटवः (कापा) कटुकाः (प. स्तं)। दानमरुच्यस्य (स्तं)। प्रदहति लज्जा (इति पंचतंत्रे पा०)। बंधक्या परितोषो न किंचिदिष्टं भवेत्पत्योः (इति उत्तरार्ध पंचतंत्रे)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com