________________
। निःस्वार्थतया यद्यपि भवति नद्यते चेतः ॥" हावाकारित्वेन त्वाम
दामोदरगुप्तविरचितं 'स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदाचिदपि । पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्याथतम् ॥ ८१३ ॥ यदि वेनि तस्य वसतिं सामर्थ्य यदि भवेत्ततोऽप्यधिकम् । तद्गत्वा दग्धविधि लगुडैः संचूर्णयाम्यधुना ॥ ८१४ ॥ वपुरिदमनुपममीग् यदि विहितं तेन ते धात्रा।।
अनुरूपरमणविरहात् किमिति कृतं वन्ध्यजन्मफलम् ॥ ८१५ ॥ इतो विंशतिभिः दूतीवचनमहाकुलकं, तत्र ८२९ आर्या यावत् परनारी नायिका प्रति प्रलोभनादिवाच्यप्रकारानुवादः, तत: त्रिभिः नायकं प्रति स: । तत्रादौ दूती तच्छृद्धोत्पादाय स्वस्याः निःस्वार्थतापूर्वी समदुःखभागितां प्रकटयति स्वेति । स्वकृत्यपरायणायाः मे कदाचिदपि परेषां कृत्याकृत्यनिरीक्षणादिकौतुकं नास्ति, तथापि त्वां-शुष्यमाणशरीरत्वादिना पतिसौख्यवञ्चितां इति भावः, बहुशो दृष्ट्वा, मम, ईदृशं तु मानसं-परव्यापारेषु अकुतूहलि अपि मनः, अद्य खिन्नं, अतः मया निःस्वार्थतया वक्ष्यमाणं पथ्यं अवधारय इत्यभिप्रायः । तथा च समा. नार्थीशा आर्या-" यद्यपि भवति न हानिः परकीयां चरति रासभे द्राक्षाम् । असमञ्जसमिति कृत्वा तथापि खलु खिद्यते चेतः ॥” इति ॥८१३॥ तहुःखापनयनाय स्वसाहाय्यं श्रावयति यदीति । यदि तस्य असदृशपतिसंयोगकारित्वेन त्वदुःखाधानहेतोः ब्रह्मणः निवासस्थानं जानीयां, यदि च मम तस्मात् ब्रह्मणः विशेषतो बलं भवेत् , तत् तर्हि, तत्र गत्वा, तव विप्रियकारिणं दुष्टं विधि विधत्ते कुरुते इति विधिः तं ब्रह्माणं, अस्मिन् एव क्षणे, लगुडैः दृढकाष्ठदंडै: तत्प्रहारैः इति यावत् , संचूर्णयामि खंडखंडं करोमि । संबन्धातिशयोक्तिः अलंकारः, " यद्यादिशब्दतः संभाविता मम्मटसंमता।" इति साहित्यसारे ॥ ८१४ ॥ तां स्वधर्मात् प्रच्याव्य विपथं नेतुं पत्यौ वैराग्योद्भावनाय विधातारं आक्षिपति वपुरिति । यदि ते तव, इदं प्रत्यक्षवर्ति, वपुः शरीरं, ईहक वर्णनातीतं, अनुपमं सदृशस्य अन्यस्य अभावात् उपमारहितं, विहितं निर्मितं, केनेत्याकांक्षायामाह-तेन सर्गविधौ अधिकृतेन प्रसिद्धन, धात्रा ब्रह्मणा जगत्स्रष्टा; तर्हि, अनुरूपरमणविरहात् त्वद्रूपविलासलालसादियोग्यपतिसंयोगानापादनेन, किमिति
८१३ परिचिन्ता (गो) । स्वप्यापारेकमतिः परवित्तार्था न काचिदप्यस्ति ( का )। मानसव्यथितम् (स्तं)। ८१४ ततोऽभ्यधिकम् (स्तं) । लकुटैः संचूर्ण यिष्यामि (प. स्तं) ०१५ विहितं तव कृशांगि हतधात्रा (प. स्तं) ते हिते (कापा)। अधुनापि रमणविरहात् (गो. का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com