________________
२९६
दामोदरगुप्तविरचितं
बुढाथ तस्य भावं प्रसारयन्युवतिसंकथा के लिम् । न्यकुर्वन् वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥ ८११ ॥ दाररतिः सन्ततये, व्याधिप्रशमाय चेटिकाश्लेषः । तत् खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ।। ८१२ ।।
श्रवणेन च संजातं राजपुत्रस्य भावनिबंधनं प्रकटयति अस्मिन् इति । अस्मिन् नृत्याचार्ये, इत्थं पूर्वोक्तप्रकारकवचनैः, दर्शयति तस्याः गुणान् प्रकाशयति सति, मंजरिकां तन्नाम्नीं नटीं प्रस्तुताख्यानस्य नायिकां, साभिलाषं अभिलाषः स्पृहा अभीष्टप्राप्तीच्छा तेन सहितं यथा स्यात् तथा, निर्वर्ण्य अवलोक्य, स राजपुत्रः, एवं गुणैर्निरूप्यमाणा मंजरी, किमिति प्रश्ने, असौ इति उक्त्वा, स्वीयेन वेत्रदंडेन क्रीडायष्टया 'छडी' इति भाषायां, पस्पर्श, वेत्रदंडस्पर्शेन तां निर्दिश्य किमसौ एव सा इति पप्रच्छ इत्यर्थः । अस्यां चेष्टायां स्वाभिज्ञानाविसंवादनं बाह्योऽभिप्रायः, अनुरागप्रदर्शनं चान्तरोऽभिप्रायः ॥ ८१० ॥ प्रासंगिकसंगत्या पारदारिकं विवक्षुः कविः तदवतारयति बुद्धेति । अथ नटीस्पर्शानन्तरं, तेन इति भावः, तस्य राजपुत्रस्य, भावं चित्तविकारं रतिं, बुद्ध्वा तच्चेष्टया विज्ञाय, सचिव: राजपुत्रस्य मंत्री, यथा राज्ञः सचिवः भवति तथा राजपुत्रस्यापि सर्वव्यवहारनिरीक्षकः सचिवः भवति; युवतीनां नायिकानां अन्यासां इत्यर्थः, संबंधसामान्ये षष्ठी, या संकथा आलापः, तद्रूपा या केलिः क्रीडा, तां, प्रसारयन् विस्तारयन्, वारवधूः वेश्याः, न्यक्कुर्वन् निंदन्, बन्धकीगमनं कुलटाभिः परदाराभिः संप्रयोगं; बन्धकी बध्नाति मनोऽत्र इति, “पुंश्चली घर्षणी बन्धक्यसती कुलटेवरी । स्वैरिणी पांशुला च स्यात् । " इति अमरः, " बंधकी कुलटा मुक्ता पुनर्भू: पुंश्चली खला । स्पर्शाऽभिसारिका दूती स्वैरिणी संफली तथा ॥ " इति धनंजयनाममाला च साच षड्विधा - " विदग्धा मुदिता चैषाऽनुशयानाऽथ लक्षिता । गुप्ता च, कुलटा चेति षट्पकारोदिता बुधैः || ” ( २३ ) इति रसरत्नहारे । ] गमनं समागम: । [ प्रशशंस । तथाहि मुकुंदानंदभाणे - " व पणावधिकं प्रेमनटनं पण्ययोषिताम् । पल्लवेषु परस्त्रीणां क्व च नैसर्गिको रसः || ” (१९३९) इति ।(पल्लवेषु शृंगारेषु । नैसर्गिकः अकृत्रिमः । ) ॥ ८११ ॥ इतः ८६१ आर्या यावत् पारदारिकम् । तदादौ अन्येभ्यो विविच्य प्रशंसति दारेति । दारा: भार्याः स्वीयाः तैः सह रतिः सुरतं, "रतिः कंदर्पभार्यायां सुरतोत्कंठयोरपि । रागेऽपि परमप्रीतौ । ” इति केशवः, संततये पुत्रपौ -
|
८११ भावं संशमयन् ( गो. का ) शंस वञ्चकागमनम् ( कापा ) ८१२ कण्डूप्रशमाय [ इति लौकिकः पाठः ]। कृच्छ्रप्रायं (स्तं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com