________________
दामोदरगुप्तविरचितं
एषाऽभिधानकीर्तनगुणितस्वशरीरकुसुमशररोषा।
सहसोद्भिन्नमनोभवभावदशा सिन्दुवारविवरेण ॥ ८०६ ॥ वर्णयति प्रशंसंति, प्रेक्षकाः सामाजिकाः वा इति शेष:, प्रसिद्धत्वादौचित्याच्च ॥ कुत्र इमानि परिक्रमादीनि इत्याह-मिश्रामिश्रे नाट्ये इति । नाट्यं नटकर्म रूपकप्रयोगः, तदुक्तं " आहार्याङ्गिकवाचिकभेदाच्चतुर्विधाभिनयैः । वाक्यपदार्थव्यंजकमिह नाट्यं नाटकीयमनुकरणम् ॥” (१ । १५) इति रघुनाथविलासनाटके; तत् द्विविधं, मिश्रं गेयं इति संज्ञितं, अमिश्रं पाठ्यं इति संज्ञितं च; तत्र अमिश्रं शुद्धं गेयरहितं पाठ्यमात्रं, यथा मालतीमाधवादि; मिश्रं च गेयनृत्यादिसहितं, यथा विक्रमोर्वशीयं, रामानन्दरायेण प्रणीतं जगन्नाथवल्लभं च । तत्र अमिश्रे पाठ्ये अंगं गीतं चेत्युभयमप्रतिष्ठितम् । मिश्रे गेये (रूपके ) तु गीतमंगं च द्वयमपि स्वप्रतिष्ठितम् । तच्च तोटकादिभेदैः विंशतिप्रकारकम् । तत्र क्वचित् गानप्राधान्यं क्वचित् वाद्यप्राधान्यं, क्वचित् नृत्यप्राधान्यं, क्वचिद्गीयमानरूपकाभिनयप्राधान्यं, कचिद्वर्णागप्राधान्यं च । तत्रापि अमिश्रमपि नाटकं सामाजिकरंजनार्थ सूत्रधारः स्वच्छंदत: गेयमिश्रणादिपरिणामेन मिश्रे परिसमाप्यते, यथा प्रकृते एव वर्णयिष्यमाण: रत्नावलीनाटिकाप्रथमा. ङ्कस्य प्रयोगः (आ. ८८१-९२८) । एवमेव शाकुंतले क्वचित्क्वचित् नटैः परिवर्धनं कृतं, विक्रमोर्वशीये च चतुर्थीके पौरूरवसीय: प्राकृतभाग: तैरेव प्रक्षिप्तः इति केषांचित् मतम् । इदं मतं न सम्यक् भाति विक्रमोर्वशीयस्थ प्राचीनकालात् तोटकत्वेन प्रसिद्धेः, तोटकस्य च गेयरूपकभेदत्वेन नृत्यात्मकत्वेन च उक्तेः ॥ ८०५ ॥ एषेत्यादिना युगलकेन मञ्जर्याः रत्नावलीभूमिकायां विशिष्टतया प्रशंसनीयं दर्शनीयं च एकं नाट्यस्थानं निवेदयति । एषा सिंदुवारविवरेण इत्यनयोः पदयो: अग्रिमार्यायां ' वत्सेश्वरं पश्यंती' इत्यत्र संबंधः । एषा मंजरी गृहीतरत्नावलीभूमिका, नायकस्य अभिधानं नाम तस्य उदयन इत्यस्य कीर्तनेन कथनेन गुणित: वृद्धिं नीतः स्वशरीरे कुसुमशरस्य कामदेवस्य रोषः कोप: यस्याः तादृशी, तथा च रत्नावल्यां प्रथमांके “प्रीत्युत्कर्षकृतो दृशामुदयनस्येन्दोरिवोद्वीक्षते ।। (११२३ ) इत्यनेन वैतालिकपाठ्येन अभिज्ञाते नायके रत्नावलीत्यपरनाम्न्या: सागरिकायाः उक्तेः छाया-"कथमयं स राजा उदयनो यस्याहं ( यस्यै अहं ) तातेन दत्ता । " इति, " कथं मंदभागिन्या मया प्रेक्षितुमपि चिरं न पारितोऽयं जनः । " इत्यादिका च ।
८०६ कीर्तननाशितशारीरकुसुमशरवेधा (प. स्तं)। भावदशा (स्तं)। सिन्धुवार (प. स्तं)।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com