________________
कुट्टनीमतम् ।
वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदिवलोकम् । आश्रितवन्तो गत्वा तीर्थस्थानानुरोधेन ॥ ८०० ॥
२८५
इति यावत्, रतिप्रियतया च पुरुषेषु निहितहृदयानां स्थापितचेतोवृत्तीनाम्, अतः चारुतासंपादकसत्त्वरहितानां इति भाव: । मद्यामिषपुरुषाः तासां चित्तविक्षेपहेतवः । प्रसिद्धं च पुरूकारवसि गतचित्तायाः उर्वश्याः नाट्यस्खलनं विक्रमोर्वशीयतोटके तृतीयाङ्कविष्कंभके॥ 'वेश्याना मल्पाऽपि पुरुषहृतहृदयानाम्' इति का. पाठोऽपि सुगम: ॥ ७९९ ॥ एवं स्त्रीयनाट्योत्कर्षसूचनाय वेश्यानाट्यनिंदां कृत्वा स्ववृत्तान्तं निवेदयति वयमिति ॥ अननहर्षः - इदानीं ' थानेश्वर ' इति प्रसिद्धस्य श्रीकंठजनपदस्य अधिपः हर्षवर्धननामा निपुणः कविः रत्नावलीप्रियदर्शिकाख्ययो: नाटिकयो: नागानन्दतापसवत्सराजाख्ययोः नाटकयोः च कर्ता, महाकविवाणमयूरदिवाकरादिभिः सेवितः, विक्रमार्कसंवत्सर ६६८ - ७०४ पर्यन्तं प्रतिपालितराज्यः चक्रवर्ती राजा । स एव तदीयरत्नावली नाटिकास्थेन (१।२२ ) - “ अनङ्गोऽयमनङ्गत्वमद्य निन्दिष्यति ध्रुवम् । यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥” इति श्लोकेन विद्वद्गोष्ठीषु अनङ्गहर्षः' इति लब्धवर्णः । यथा तत्तदपूर्वकल्पनायुक्त श्लोकनिर्माणात् कालिदासः दीपशिखा कालिदास इति ( रघुवंशे ६/६७ ) धूमकालिदास : ( रघु० ७।४३ ) इति वा, भारवि: ( किरातार्जुनीये ५ । ३९ ) आतपत्रभारविः छत्रभारविः वा इति, माघ : ( शिशुपालवधे ४।२० ) घण्टामाघ इति, वेणीसंहारनाटककर्ता नारायणः निशानारायण इति, रत्नाकरः ( हरविजयमहाकाव्ये १९/५ ) तालरत्नाकर इति, वाणभट्ट: ( हर्ष - चरिते उ० ३।५ - ६ ) तुरंगबाण इति, त्रिविक्रमभट्टः ( नलचम्प्वां ६ |१ ) यमुनात्रिविक्रम इति, मुरारि: ( अनर्घराघवनाटके २।८१ ) इन्दुमुरारिः इति, मंख: ( श्रीकण्ठचरितमहाकाव्ये ६।१३ ) कर्णिकारमंख इति, अमरचन्द्रसूरिः ( बालभारतमहाकाव्ये ११।१६ ) वेणीकृपाणामरः इति, अप्पयदीक्षितपितामहर्षे आचार्यदीक्षित: ( वरदराजवसंतोत्सवे ) वक्षःस्थलाचार्य इति, मालतीमाधवादीनां कर्ता भट्टश्रीकण्ठः भवभूतिश्रीकण्ठ इति च प्रसिद्धिमुपगता: तथा ॥ तस्मिन् अनंगहर्षे. नाट्यशास्त्रपारंगते राशि, त्रिदिवलोकं त्रय: ब्रह्मविष्णुरुद्राः दीव्यन्ति यत्र इति त्रिदिवं स्वर्गः स एव लोकः भुवनं तं गते प्राप्ते, तस्मिन्मृते इत्यर्थ:, ( तत्समयश्च विक्रमार्कसंवत्सरस्य ७०४ तमो वत्सर इति ऐतिहासिकैर्निर्णीतः, ) वयं अहं मच्छिष्याःनट्यश्च इति भावः, अपि त्वर्थक:, अस्मद्विद्यायाः अनुरूपपरीक्षकाभावात् निर्विण्णाः इति सूच्यते, गत्वा व्रजित्वा, तीर्थस्थानानुरोधेन इयं वाराणसी पुण्यजनकं.
८०० त्रिदशलोकम् ( प. स्तं. ) । मत्वा ( प. स्तं . ) । स्थानोपरोधेन ( प. स्तं. )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com