________________
दामोदरगुप्तविरचितं रङ्गगताऽपि क्षुद्रा शृणोति यदि परिचितं गृहायातम् । उद्दिश्य चापि कार्य व्रजति ततः प्रकृतमुत्सृज्य ॥ ७९७ ॥ आ तारुण्योद्भेदात्कान्ते दृष्टिर्यया न्यस्ता । सामाजिकमध्यस्था. कथमन्या समुपयाति परभागम् ॥ ७९८ ॥ चेतोऽन्तरा न सत्त्वं, सत्त्वे सति चारुता प्रयोगस्य ।
न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥७९९॥ (हरिवंशे ) इत्युक्तेः शूलति विक्रीणाति आत्मशरीरं इति शूला पण्ययोषित् ; तां ता वा पालयति इति शूलापाल: वेश्याधिपतिः । तां अतथाविधां अपि रजस्वलां ऋतुमती कथयति निवेदयति, तादृश्या नृत्यकरणं निषिद्धं इति ॥ ७९६ ॥ द्वाभ्यां तासां अनागमने निमित्तादीन्युक्त्वा रंगं आगताया अपि शाठ्यस्य प्रकारं प्रकाशयति रंगेति । क्षुद्रा वेश्या, संगीतकार्थ, रंगं नाट्यस्थानं तत्र गताऽपि, यदि परिचितं कामुकं गृहायातं स्वस्याः गृहं आगतं शणोति, ततः तदा, तद्गतचित्ता अधिकलोभाद्वा, गृहे अवश्यकर्तव्यव्याजेन प्रकृतं नाट्यं, उत्सृज्य त्यक्त्वा, व्रजति अपगच्छति ॥ ७९७ ॥ नृत्यन्त्याः अपि तस्याः विसंष्ठुलताजन्यं अरमणीयत्वं प्रतिपादयति आ तारुण्येति द्वाभ्याम् । यया वेश्यया, तारुण्योद्भेदात् आ यौवनप्राप्तिकालं आरभ्य, कान्ते कमनीये सुरूपे पुरुषे इत्यर्थः, दृष्टिः न्यस्ता अनुरागवती जाता इत्यर्थः, यं कमपि सुरूपं दृष्ट्वा तत्र आसक्ता भवति इति भावः, तादृशी अन्या अपरा, सामाजिकानां सभ्यानां प्रेक्षकाणां मध्ये स्थिता नाट्यार्य, कयं,] परभागं शोभातिशयं, [समुपयाति प्राप्नोति । अभ्यासात्समाजस्थितसुंदरपुरुषदर्शनहृतदृष्टिचित्तादिना वेश्या यथावत् नृत्यं कर्तुं न पारयति इति तात्पर्यम् ॥ ७९८ ॥ प्रयोगचारुताबीजनिर्देशपूर्वकं वेश्यासु तदसं. भवात् तासां नाट्ये अनौचित्यं उपसंहरति चेतः इति । चेत: चित्तं लक्षणया तदै. काम्यं इत्यर्थः, अंतरा विना, “अंतरा तु विनार्थे स्यान्मध्यार्थनिकटार्थयोः । " इति विश्वलोचने, ] 'चेतोऽन्तरा असावधानता' [इति टिप्पणी चिंत्या, न, सत्त्वं बलं सौष्ठवसंपादकं; तस्मिन् सति वर्तमाने च, प्रयोगस्य तत्तद्भावानां अभिनयस्य, चारुता रमणीयता भवति, इति तत्त्वम् । सा चारुता वेश्यानां नाट्ये न भवति। तत्र हेतुद्योतकं तासां विशेषणं मद्येत्यादि । मद्ये मधुपाने, आमिषे मांसे तद्भक्षणे ___७९७ यत्परिचितं (का) [अनर्थकः पाठः ] । वारिकार्य (प.स्तं)७९८ भेदाच्छान्ता दृष्टिर्यया निजाऽभ्यस्ता (प. स्तं) कान्ते याभ्यस्ता (गो २)।स्था सा कथमन्यासुयाति (प. स्तं)। परिभावम् (स्तं) ७९९ चेतोवशिता सत्वं (प.गोर)। चेतोवखिता सत्त्वं (स्तं)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com