________________
कुटनीमतम् ।
काचिदलिनाऽऽक्रान्ता, काचिन जहाति कामिनं रुचिरम् । अन्या पानकगोष्ठयां नयति दिनं प्रीतकैः सार्धम् ॥ ७९५ ॥ नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।
शूळापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥ ७९६॥ नाट्ये, वणिज: क्रयविक्रयकारिणः सार्थवाहा: वा वैश्याः किराटा: अबैंक पुरुषार्थाः वित्तशाठ्याः, नेतारः नायकाः सभाप्रधानाः, यत्र च, पात्राणि नटा: “पत्रं पणे च पक्ष्मणि नृत्योद्यतनटेऽपि च ।” इति विश्वलोचनः, पत्रमेव पात्रं, "प्रज्ञादिभ्यश्च" (पा. ५।४।३८) इति स्वार्थेऽण् , दास्य: वेश्याः, कीदृश्यः, शाठ्यायतनं कापट्यनिवासस्थानं, तत्र तस्मिन् तादृशे इत्यर्थः, नाट्ये वाचिकादिचतुर्विधाभिनयरूपे नटकर्मणि नटप्रयोगे, तथाहि भावप्रकाशे-" आङ्गिकाद्यैरभिनयैर्वाक्यार्थाभिनयात्मकम् । रसभावसमायुक्तं तन्नाट्यं परिचक्षते ॥" इति, सौष्ठवं चारुता मनोहरत्वं, कुत: प्रश्ने अव्ययं, कस्मात् हेतोः इत्यर्थः । तादृशे नाट्ये सौष्ठवं नास्त्येव इति भावः ॥ आक्षेपद्वारा यत्र त्वादृशाः राजपुत्राः सभानायकाः, अस्मद्विनेयसदृश्यः नट्यश्च तत्रैव यथार्थ नाट्यं भवेदिति सूचितम् ॥ ७९४ ॥ त्रिभिः वेश्यानर्तकीनां पूर्वोक्तशाठ्यस्य प्रकारान् प्रपञ्चयति काचिदित्यादिभिः । काचित् वेश्या, बलिना अधिकप्रभुत्ववता पुरुषेण, आक्रान्ता अधिष्ठिता, अतः नाट्याय आहूता सेच्छाऽपि तद्भयतः आगन्तुं अशक्ता इत्यभिप्राय: । काचित् वेश्यानटी रुचिरं सुंदरं कामकलादिना वा मनोहरं, कामिनं कामुकं, न जहाति तस्मिन् आसक्ता स्वयमेव भोगवंचनभीत्या नागच्छति । अन्या, पानं एव पानकं मद्यपानं तदर्थ या गोष्ठी सभा समाजो वा तत्र, पानार्थायां सभायां मद्यपानां समाजे, 1 प्रीतकाः प्रियाः [तैः सार्ध सह, दिनं नयति दिवसं क्षपयति, अतः मत्ता सा नाट्ये अशक्ता ॥ ७९५ ॥ एका अन्या काऽपि, कामुकप्राप्त्याशया, निरन्तरं, गृहद्वारं न त्यजति, गृहे स्वस्थित्यभावे कामुकप्रणाशभिया, पिंगलावत् , लोभग्रस्तत्वात् । अपरां तु केनाऽपि कारणेन जिगमिषाविरहितां, लब्धः कामुकात् वेश्यायाः वा] उत्कोचः उपदा [लञ्चा 'लांच' इति भाषायां, येन सः, शूलापाल:-शूला पण्ययोषित् , तथा च “ अट्टमन्नमिति प्रोक्तं शूलो विक्रय उच्यते । शिवो वेद इति प्रोक्तः केशो भग इतीर्यते ॥" तथा "अट्टशूला जनपदाः, शिवशूला द्विजातयः । प्रमदा: केशशूलिन्यो, भवंत्यत्र कलौ युगे ॥"
७९५ वलनाकान्ता (प. स्तं)। रुचितं (प.स्तं)। अन्या च पानगोष्ठया (प.स्तं)। प्रीतिकः (प)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com