________________
२८२
दामोदरगुप्तविरचितं
अभ्युपपश्यवबोधकमस्तकचलनं विधाय विकृतभ्रूः । नृत्याचार्यमवादी देतस्मिन्किन्नु संगीतम् ॥ ७९३ ॥ स उवाच ततो 'वणिजो नेतारो यत्र, यत्र पात्राणि । शाट्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाटये ॥ ७९४ ॥
काव्या
क्त्यलंकारः व्यंग्यः, कारणसत्त्वेऽपि निमित्तवशात् कंचित्कालं कार्यानिष्पत्तेः सूचनात् ॥ सन्दानितकं इति युग्मं, तथाचोक्तं – “एकस्मिन् छंदसि वाक्यसमाप्तौ मुक्तकं, द्वयोः संदानितकं, त्रिषु विशेषकं, चतुर्षु का ( क ) लापकम् । " इति लंकारटीकायां ( १६।३६ ) नमिसाधुः; साहित्यदर्पणे ( ६ । ३१४ ) तु - " द्वाभ्यां तु युग्मकं, संदानितकं त्रिभिरिष्यते । कलापकं चतुर्भिश्च, पंचभिः कुलकं मतम् ॥” इति किंचिद्भेदेन प्रोक्तम् । ( तन्मतेन संदानितकस्यैव विशेषकं तिलकं चेति संज्ञा ॥ ) “एकः श्लोको मुक्तक: स्यात्, द्वाभ्यां युगलकं स्मृतम् । त्रिभिर्गुणवती प्रोक्ता, चतुर्भिस्तु प्रभद्रकम् ॥ बाणावली पंचभिः स्यात् षड्तिस्तु करहाटकः ||" इत्यपि अन्यत्र संज्ञा उक्ताः ॥ ७९२ ॥ प्रकरणान्तरं प्रस्तौति अभ्युपपत्तीति । अम्युपपत्तिः सान्त्वनपूर्वकोऽनुग्रहः, तस्याः अवबोधकं सूचकं ज्ञापकं, मस्तकचलनं शिरश्चालनं, विधाय कृत्वा, इदं आकंपितं शिर:, यथोक्तं नाट्यशास्त्रे - " शनैराकंपनादूर्ध्वमधश्चाकंपितं भवेत् । ( ८/१९ ) संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकंपितं शिरः || ” ( ८|२० ) इति । एतस्मिन् आस्थाने तत्र वर्तमानं इति यावत्, नृत्याचार्य: नृत्योपाध्यायः यथा मालविकाग्निमित्रे गणदासहरदत्तौ, तं, विकृतभ्रूः उत्क्षिप्तैक भ्रुकुटि:, अयं भ्रुकुटिव्यापारः उत्क्षेपाख्यः, तथाच भरत:- "भ्रुवोरुद्रतिरुत्क्षेपः सममेकैकशोऽपि वा । " ( ८ । ११४ ) इति, स च प्रभेऽपि; अवादीत् उक्तवान् । किमित्याह किंन्विति । किन्नु इति प्रभे, “किन्नु प्रभे वितर्के च ।" इति विश्वलोचन:, संगीतं प्रेक्षणार्थ नृत्यगीतवाद्यत्रयं, “ गीतवाद्यनृत्यत्रयं नाट्यं तौयत्रिकं च तत् । संगीतं प्रेक्षणार्थेऽस्मिन्, शास्त्रोक्ते नाट्यधर्मिका || ” ( २ । १९३ ) इति हेमचंद्रः, “ गीतं वाद्यं तथा नृत्यं त्रयं संगीतमुच्यते । ” इति च संगीतरत्नाकरे ( १।२१ ); एवं च मालविकाग्निमित्रस्थं 'संगीतशालातः ' इति पदं तट्टीकाकारैः नाटकशालाया इति व्याख्यातमू, संगीतस्य गानमात्रार्थत्वं तु उपचारात् ॥ ७९३ ॥ तवः एवं प्रश्ने कृते, सः नृत्याचार्य:, उवाच उत्तरं अदात् किमित्याह वणिज इत्यादि । यत्र यस्मिन्
७९३ अभ्युपगमावबोधक (प.स्तं) । वलनं ( कापा ) । नृत्ताचार्य ( प. स्तं ) । किं सुसंगीतम् ( पं. स्तं. गो २ ) ७९४ साध्यायतनं ( गो ) [ अस्य का. पाठः अक्षरमात्रः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com