________________
कुट्टनीमतम् ।
I
अन्या कलहान्तरिता, नवपरिणयलज्जयाऽपरा सहिता । रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥ ७९२ ॥ ( संदानितकम् ) वैवर्ण्योच्छुसितादयः । ” इति ॥ ७९१ | अन्या कलहान्तरिता कलहेन अन्तरिता प्रियात् व्यवधानं प्राप्ता, तल्लक्षणं च - " प्राणेश्वरं प्रणयकोमलमंजुवाग्भिर्या चाटुकारम - चिरादवधीर्य याति । संतप्यते मदनवह्निशिखा सहसैर्बाष्पाकुला कुकलहान्तरिता हि सा स्यात् ॥ ( ७ ) इति भरतकृताष्टनायिकालक्षणे; 'पतिमवमत्य पश्चात् परितप्ता' इत्यर्थः, तस्याः चेष्टाश्च - "भ्रांतिसंतापसंमोहनिः नःश्वासज्वरप्रलापादयः । " इति रसमंजर्याम् । अपरा अन्या तु नवपरिणयेन नूतनपाणिग्रहणेन, या लजा धाष्टर्याभावः, तया सहिता, प्रचुरव्रीडा, सा तु प्रथमं अवतीर्णनवयौवना, अत एव रत्युदयेऽपि प्रियसमागमे भयं लजां च वहति तेन ' मुग्धा ' इत्युच्यते, यौवनोदयात् प्रागेव सा विवाह्यते इति सैव 'नवोढा' इत्यपि उच्यते; " मुग्धाया आद्यावस्था नवोढा, दरविश्रब्धा मुग्धैव विश्रब्धनवोढा इत्यन्ये । अस्याश्च रतिवामत्वकोपमृदुत्वादयश्चेष्टाः । " इति च शृंगारामृतलहर्याम् । एवं नवोढा लज्जाभयपराधीनरतिः, “अस्याश्चेष्टा क्रियाहिया मनोहरा, कोपे मार्दवं, नवविभूषणे स्पृहा च । " इति रसमंजर्याम् । एवं रमणीगणस्य स्वीयसुंदरीसमूहस्य, प्रकृते पत्नीपंचकस्य, मध्यगतोऽपि तेन सन्निहितः परिवृतोऽपि, स बहुजानिः बह्वयः जायाः पत्न्यः यस्य सः, “ जायाया निङ् ” ( पा. ५ | ४ | १३४ ) इति जायान्तस्य बहुव्रीहिसमासे निङादेशात् बहुजानिः, स्मरातुरः कामावेगवान् सन्, किं करोतु, सर्वासामपि स्वस्वकारणभेदेन रतिवैमुख्यात् कामवश: नायकः किंकर्तव्यतामूढः वर्तते इति भावः ॥ प्रकृते प्रथमा तावत् प्रसादनीया, द्वितीया संतोषितव्या, तृतीया अनुनेया, चतुर्थी संधेया, पंचमी च आवर्जनीया, इति नायकस्य दक्षिणत्वात् बहुकार्य संपातेऽपि खण्डिताया एव गुरुकोपवत्त्वात् तस्याः प्रसादनं एव सर्वोपरि इति रहस्यम् । अत एव तस्याः अत्र प्रथमं ग्रहणम् ॥ एतच्छायः कोऽपि श्लोक:- “नाता तिष्ठति कुंतलेश्वरसुता, वारोऽङ्गराजस्वसुः, द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याऽद्य च । इत्यन्तःपुरसुंदरी : प्रति मया विज्ञाय विज्ञापिते, देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ " इति । ( स्नाता ऋतुस्नाता | वार: सुरतार्थ नियमितः दिवस: । द्यूते पणत्वेन सैव रात्रिः कमलया जिता जयेन आत्मसुरतार्थ प्राप्ता । देवी कृताभिषेका राजपत्नी । नाडिका क्षण: । ) अत्र उक्तनिमित्ते विशेषो
२८१
९२ परा निहता ( प ) । लज्जया निहता (स्तं ) । स्मराकुलः (गो) । करोति ( प. स्तं)
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat