________________
३७९
कुट्टनीमतम्। श्रुत्वोत्तरमवदत्तं बन्दिनमभिनन्य साधुवादेन । 'आस्स्व किमाकुलता ते, यास्यसि तुष्टो मया महितः ॥ ७८८ ॥ पुनरपि पठ तयुगलं गीतिकयोर्यत्वया पुरा पठितम् । कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकारामे ॥ ७८९ ।। 'त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे' ।
अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७९० ॥ संबद्धानि सुखानि, सन्तु वर्तन्ताम् । इति । आशीरलंकारः ॥७८७॥ श्रुत्वा आकर्ण्य, उत्तरं पश्चात् श्रवणानन्तरं, तं बंदिनं चाटुकारिणं, साधुवादेन अभिनंद्य साधुसाधु समीचीनं इत्युक्त्या प्रशंस्य, अवदत् । किमित्याह आस्स्वेत्यादि । आस्स्व स्वासने उपविश, इदानीं गमनं मा कुरु इत्यर्थः । ते तव, किं किमर्थ, आकुलता चित्तव्यग्रता यत् गमनाय उद्युक्तोऽसि इति भावः । तुष्टः मत्त: पारितोषिकादिलाभेन प्रसन्नः, मया प्रहित: गमनाय अनुज्ञातः सन् , यास्यसि गमिष्यसि, विलंबस्व तावत् इति भावः ॥ ७८८ ॥ गमननिवारणकारणभूतं स्वेप्सितं तं बंदिनमाह पुनरिति । कुलपुत्रिकारामे कुलकन्यका कन्यकाभिजनः तदर्थ य: आराम: उद्यानं स कुलपुत्रिकारामः, तत्कारणात् तन्नानैव प्रसिद्धः राज्ञः आरामः, तत्र, स्थितस्य मम मयि स्थिते इत्यर्थः, कक्षान्तरितेन कक्षा गेहप्रकोष्ठ: 'धौढी' 'दोढी' वा इति भाषायां प्रसिद्धा, 'कक्ष्या ('क्षा) साम्यवरत्रयोः । कच्छाख्यगुह्यवस्ने च काञ्चयां गेहप्रकोष्ठके ॥ पार्थाद्यंगसमुद्भूतरोगभेदेऽङ्गुलावपि ।" इति केशवः, अन्तरितेन अन्तर्गतेन आच्छादितेन वा,] 'कक्षान्तरितं गर्भगृहान्तरं [इति टिप्पणी अशुद्धा, त्वया, पुरा कस्मिंश्चित् समये, यत् ; गीतिः छंदो. विशेषः, तल्लक्षणं उक्तं प्राक् (आ. ३२५ टी.), सा एव गीतिका, गीतिका च गीतिका च गीतिके तयोः, युगलं युग्मं, पठितं प्रोक्तं, तत् पुनरपि पठ, तस्य रमणीयशब्दार्थवत्तया तव पाठकौशलेन च अधुना पुनः श्रोतुं इच्छा वर्तते इति भावः ॥७८९॥ बन्दी प्रत्युवाच त्वयीति । अस्यां विद्वद्गोष्ठयां त्वया ' साधुसाधु । इत्यादि वदता मे अभिनंदनं कृतं तेन इयं मे वाणी] उन्मुद्रिता विकसिता [ समुन्मीलिता जाता, प्रोत्साहितोऽहं इति भावः; इति: प्रकारे, राजपुत्रस्य चाटुं कृत्वा, तत् स्मृतिपथमानीतं गीतियुगलं त्रिस्थानविशुद्धनादेन कंठादिस्थानत्रये विशुद्धेन अदुष्टेन स्वच्छेन नादेन
७८८ श्रुत्वानन्तरम ( प. स्तं)। अस्ति किमा० (का) ७८९ गीतिकया यत्पुरा (का)। पुत्रिकावासे (प. स्तं ) ७९० त्वयि ददति (गो २)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com