________________
कुट्टनीमतम् ।
तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः । परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥ ७८२ ॥
C
२७९
"
पुत्रस्य जात्यादिसत्त्वेन बुद्धात् व्यतिरेकः व्यञ्जितः ॥ अत्र ] कस्य न जाति: बंधुः, अपि तु सर्वस्यैव सजातीयवत् हितकारी, पक्षे सामान्यम् | अद्वयवादिना ज्ञानब्यतिरिक्तसर्वनिरासात् कस्यचिदपि न जाति: । आत्मा प्रियः । अर्थज्ञानं अर्थरूपेण ज्ञानम् । पक्षे नात्मा आत्माव्यतिरिक्तः तस्मिन् न पदार्थरूपतया ज्ञानम् । प्रशमः शांतिकरः, पक्षे शांतिः । अद्वयवादी बुद्ध: । ' [ इति टिप्पणी ॥ प. स्तं संज्ञितपुस्तकयोः पाठस्तु "यस्य न जाति: • • • भवसार न त्वं तेना सदृशः || ” इति । एतपाठे अर्थस्तु -यस्य तव न जाति: लक्षणया ब्राह्मणादिभेदपक्षपातः न, यस्य न आत्मा कोsपि आत्मीयो न, न च अर्थज्ञानं अपरिमितद्रव्यस्य आगमात् अतिदानात् वा, न च मानसे मनसि प्रशमः शांतिः सर्वदैव परहितकरणचिंतासक्तत्वात्, सः त्वं, हे भवसार जगतः सारभूत, तेन प्रसिद्धेन अद्वयवादिना बुद्धेन असदृशः न भवसि अपि तु सदृशः तुल्यो भवसि यतः तव जात्यादिः नास्ति, तथा बुद्धस्यापि इति ॥ उभयपाठयोः रत्नपदस्वारस्यात् वर्ण्यमानस्य च उत्कर्षध्वननात् मुद्रितः गो. पुस्तकस्थः पाठः एव श्रेयान् ॥ अपि च रत्नं इति अभेदप्राधान्यं रूपकं तेन रत्नपक्षेऽपि उत्तमानां तेषां सर्वेषां एकरूपत्वात् तत्र न जातिः, जडत्वात् च न आत्मा, तत एव तस्य न अर्थज्ञानमपि, मानसे हृदये अन्तरिति यावत्, रत्नस्य प्रशमः न, किन्तु उज्ज्वलता अस्ति इत्यपि बोध्यते ॥ यद्वा यतः सर्वं आत्मवदेव पश्यसि ततः अद्वयवादिना केवलाद्वैतवादिना सदृश: तुल्यः भवसि इत्यर्थः; अस्मिन्नर्थे ' न मानसे अप्रा शमः अद्वयवादिना सदृश:' इति च पदच्छेदः कर्तव्यः ॥ यद्वा भवं सारयंति नाशयंति ते भवसाराः उदारा: दातारः तेषु रत्नं श्रेष्ठः भवसि ; यत: उदाराणां अपि न जातिः दानाय नियमिता जातिः न, न च आत्मा आत्मीयः, न च अर्थज्ञानं इयदेव देयं नाधिकं न्यूनं वा इत्यर्थज्ञानं न, न च मानसे प्रशम: दानविषये शांतिः नास्ति अपि च अविच्छेदेन ददाति इत्यपि स्फुरति ॥ ७८१ ॥ वृद्धे: उत्कर्षस्य वृद्धिसंज्ञकादैचां च योग: । [तस्मिन् व्याकरणशास्त्रे । ] पुरुषस्य गुणानां शौर्यादीनां गणस्य [ समूहस्य च ख्याति: ] प्रसिद्धि: प्रथमादिपुरुषस्य, गुणस्य गुणसंज्ञकादेङां, गणस्य भ्वादिप्रभृतिगणस्य च ख्यातिः प्रसिद्धिः । परिभाषा नियमो नियमवाक्यं च, [ परिभाषा सूत्रत्वात् अल्पाक्षरा भूयिष्ठार्था सर्वत्र प्रवृत्ता प्रामाण्यं गता च,
७८२ तस्यापि वृद्धि ० (स्तं)। गणस्योक्तिः (का) । रिच्यते (का) [ प्रक्रमभंगदुष्टः पाठः ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com