________________
२७४
6
दामोदरगुप्तविरचितं
कस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः । भवसि भवसाररत्नं तेनाद्वयवादिनाऽसदृशः ॥ ७८१ ॥
9
च । मात्राविशेषश्छंदोजाति: आर्या, [ तल्लक्षणं तु - " लक्ष्मेतत्सप्तगणा गोपेता भवति नेह विषमे जः । षष्ठो जश्च नलघु वा प्रथमार्धे नियतमार्यायाः || ” इति (५/१ ) छंदोमंजर्याम् ] भार्या च । पिंगल: छन्दः शास्त्रनिर्माता ऋषिः, [सोऽयं पिंगलनागः पिंगलाचार्यः पतंजलिरित्येवं अनेकधा ख्यायते, अयं नागत्वेन लुप्तनागजातीयः स्यात् इत्यनुमीयते, पाणिन्यनुजोऽयं इति सर्वानुक्रमणिकाटीकायां षड्गुरुशिष्यः । त्वया धर्मविदा शूद्राणामुत्कर्षापादनेन वर्णमर्यादाभंगो न कृत: इति भावः । कथं इत्याक्षेपेण तयोः वैषम्येण उपमानोपमेयभावः असंभवी इति सूचितं, तेन प्रतीपविशेषोऽलंकारः व्यतिरेकालंकारश्च व्यंग्यः । आचार्यदण्डिमतानुसारेण ( २३४ ) अत्र प्रतिषेधोपमा । ] ॥ ७८० ॥ [ तस्य भगवतो बुद्धात् व्यतिरेकस्य प्रदर्शनेन तं स्तौति कस्येति । त्वं कस्य न जाति: जातिमान् सजातिः बंधुः, कस्य च त्वं आत्मा आत्मभूतः सुहृत् न, अपि च त्वं कस्य अर्थज्ञानं अर्थाय घनलाभाय ज्ञानं लक्षणया ज्ञानविषयीभूत इत्यर्थः, न तथा त्वं प्रशमः " अर्शआदिभ्योऽच्” (पा. ५|२|१२७ ) इत्यच्प्रत्ययाश्रणे शांतिमान् त्वं कस्य अर्थात् अविशेषेण सर्वेषां अपि त्वं बन्ध्वादिः असि । यतः एवं तेन ततः, त्वं भवसाररत्नं भवस्य जगतः सारं उत्कृष्टतमं रत्नं मणिः सन् । अद्वयवादी अद्वयं विज्ञानाभेदं सर्वेषां पदार्थानां वदति इति अद्वयवादी बुद्ध:, तथाहि बुद्धस्य सुगतादिनामसु अमर: आह–“ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । " इति, तेन बुद्धेन असदृशः असमः तेन अनुपमेयः इति यात्रत्, भवसि । तथा च विज्ञानवादिबौद्धमते विज्ञानव्यतिरिक्तस्य सर्वस्य मिथ्यात्वात् तस्य न जात्यादि किमपि वर्तते, तव तु तत् सर्व वर्तते इति । तथा बुद्धपक्षे जाति: सामान्यं, आत्मा जीवात्मपरमात्मेतिभेदद्वयवत् आत्मद्रव्यं, अर्थज्ञानं पदार्थानां ज्ञात्राश्रयं ज्ञानं, मानसे प्रशमः इत्यत्र च मानसे अप्रशम: इति पदच्छेद:, तेन अप्रशमः न अर्थात् प्रशमः शांतिः अस्ति || अत्र भवसाररत्नं' इति पदं स्वारस्येन बौद्धमते बुद्धः धर्मः संघश्चेति रत्नत्रयांगीकारेण बुद्धस्य रत्नत्त्वात्, " जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते । ” इति न्यायेन स्तूयमानस्य रत्नत्वात् उभयोः तुल्यत्वं ध्वनयति । तेन प्रकारेण तुल्यत्वेऽपि राज
मानसे हृदये न,
"
७८१ कस्य न ( गो. का ) यस्य न ( प. स्तं ) । नात्मज्ञानं (का) । प्रेम ( कापा ) साररत्नं (गो) । केन द्वय० (का) भवसार न त्वं तेना० ( १ . सं )
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com