________________
दामोदरगुप्तविरचितं
अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः । ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥ ७७१ ॥ हृदयेषु कामिनीनामेकोऽनेकेषु वससि येन त्वम् । जनकः कुसुमास्त्रभृतः पुरुषोत्तम तेन विश्वरूपोऽसि ॥ ७७२ ॥ किं वहसि वृथा गर्व प्रियोऽहमिति योषितां नराधीश ।
काङ्कन्ति स्म मुरारि षोडशगोपीसहस्राणि ॥ ७७३ ॥ त्तिस्तृतीया स्यात्सत्यपि प्रतिबंधके । " इति (कुवलयानंदे ) लक्षणात् । अनेन तस्य बहुरमणीरमणत्वं सूचितम् ॥७७०॥ आश्चर्यान्तरमाह अपरमिति । धवलत्वं श्वेतवर्णत्वं सुंदरत्वं च, "धवल: सुंदरे श्वेते त्रिषु, पुंसि महावृषे ।" इति विश्वलोचनः । अपयाति दूरीभवति विलुप्तं भवति । ललनेत्यादि रमणीनेत्रनीलोत्पलपत्रकान्या शबलितस्य कर्बुरितस्य चित्रितस्य अर्थात् त्वयि तत्कटाक्षपातानां नेल्येन लिप्तस्यापि, कटाक्षानां असितत्वे च उक्तं अमरुकशतकटीकारसिकसंजीवन्यां-" वर्णयंति सितमसितं सितासितं च कटाक्षम् ।” (१) इति, अन्यत्र च " यत्रयत्र वलते शनैःशनैः सुभ्रुवो नयनकोणविभ्रमः । तत्र तत्र शतपत्रधोरणी तोरणीभवति पुष्पधन्वनः ॥” इति ॥ अत्र मूले अतद्गुणालंकारः, तल्लक्षणं च-" तद्रूपाननुहारस्तु हेतौ सत्यप्यतद्गुणः।" इति ॥७७१॥ तस्य सौंदर्यमाह हृदयेषु इति । ] जनकः उद्दीपक: पिता च । पुरुषोत्तमः नरश्रेष्ठः नारायणश्च । [येन यतः, त्वं एकोऽपि अनेककामिनीहृदयेषु स्वसौंदर्येण निहितपदः वससि, कामिनी च रूपादिदर्शनेन संजातकामा स्त्री, तत्र च कुसुमात्रभृत: कामस्य जनकः, तेन ततः, हे पुरुषोत्तम, त्वं विश्वरूप: कृष्णः असि, सोऽपि कृतानेकगोपीहृदयवसतिः, पुरुषोत्तमनामभाक, प्रद्युम्नावतारस्य कामस्य पिता च । तथा च विष्णुनामसु त्रिकांडशेष:-" .. 'कोकः पुराणपुरुषो नलिनेशयश्च वासुर्नरायणपुनर्वसुविश्वरूपाः । (२२९) । .. कालनेमियवनारिपाण्डवाभीलसिंधुवृषकृष्णकेशिनः । " ( १।३१ ) इति, अनंगनामसु च" मधुप्रियोऽथ प्रद्युम्न:, . . ( १।३७), ... संसारगुरुमनोजन्मा ( ११३८) । काणिश्च " (कृष्णस्य अपत्यं पुमान् काणिः) इति ॥ श्लेषमूलक: काव्यलिंगालंकारः । अनया तस्य सौंदर्यवीरत्वं प्रकाशितम् ॥ ७७२ ॥ पुनरपि वक्रभणित्या तदाह किमिति । वृथा मुधा, गर्व सर्वाधिकत्वघियं, योषितां रमणीनां प्रियः इत्य
७७१ जनकं (सं)। नोपयाति (का)। तद्भवतः (प. स्तं) ७७२ जनके कुसुमास्त्रपाणे: (१) जनककु० (स्तं)।त्रभृतस्तेन त्वं वि (का)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com